This page has not been fully proofread.

प्रथमाश्वासः
 
अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुस्सहस्रेषु ।
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥१०॥
 
अस्ति किल समस्तसुरासुरस्तोम वन्दितचरणारविन्दस्य भगवतो
महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाचर्याणां आकरो
रत्नानां, अवर्धिर्वैषयिकानन्दस्य, किमपरमगोचरे गिराममरावती
नाम नगरी। तत्र च निरालम्बे नभसि वर्तमानतया सर्वपथीनद्वारतया
 
अधिकार: सामर्थ्यम्, दूरे दूरतः । यथाकथञ्चित्सम्पादितस्य मृदुतरस्य नवनीतस्य
नवनीतभक्षणस्य च दृष्टप्रातिस्विकरूपेणानुभूयमानत्वाच्छिवचरितानि विषभक्षणा-
दीनि साकल्येन वर्णयितुं सामर्थ्यं नास्ति, अस्माकन्तु तद्वर्णने स्वरूपयोग्यतैव
नास्तीति किमु वक्तव्यमिति भावः । कविः स्वस्य कार्तान्तिक सिद्धान्तपरिशीलन-
मस्तीति बोधयितुं ग्रन्थनिर्माणकालशकादिकं कथयन् यशोनिमित्तभूतं ग्रन्थस्य न.म
निर्दिशति ॥ अष्टेति ॥ अष्टभिरधिका त्रिंशत् । तथा उपस्कृतानि मिश्रितानि
सङ्घटितानीति यावत् । तानि च यानि सप्तभिरधिकानि शतानि च तैरधिकानि
च तानि यानि चत्वारि सहस्राणि च तेषु । अङ्कानां वामगत्यनुरोधेन (४७३८)
अष्टत्रिंशदुत्तरसप्तशताधिकचतुस्सहस्रसङ्घ याकेष्वित्यर्थः । कलिवर्षेषु कलियुगस्य
वत्सरेषु गतेषु अतीतेषु सत्सु । अयं नीलकण्ठविजयः तन्नामककृतिविशेषः,
प्रथितः किल निर्मितः खलु । मयेति शेष: । बुद्धिस्थत्वादयमिति सिद्ध -
वन्निर्देश इति भावः । वर्ण्यमानसमुद्रमथनोपयोगिनीं कथां प्रस्तौति । अस्तीति ॥
समस्ताश्च ते सुराधासुराश्च सुरासुराः निखिलदेवराक्षसाः तेषां स्तोमः सङ्घः,
तेन वन्दिते चरणारविन्दे यस्य तथाभूतस्य । भगवतो महेन्द्रस्य स्थानं रक्षणीयं
स्थानम् । अमृतं अन्धः अन्नं येषां ते अमृतान्धसः तेषां देवानां । ' भिस्सा-
स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । आस्थानं आलयमात्रम् । निरुपसर्गस्य
स्थानशब्दस्य रक्षणीयस्थानमर्थः । आड्यूर्वस्य आलयमात्रमर्थः, शब्दशक्तिस्वा
भाव्यात् । आश्चर्याणां विचित्राणां आयतनं निवास: । रत्नानां श्रेष्ठवस्तूनामा-
करः 'खनिः स्त्रियामाकर: स्यात् ' इत्यमरः । विषयाश्शब्दादयः तेभ्य आगतः
 
1. परमगोचरः इति व्याख्यानुसारी पाठः कोशस्थपाठस्तु किमपरमगोचरे इति ।
2. " वैयाकरणसिद्धान्तकौमुदीयं विरच्यते " इतिवदिति भावः ॥
 
N. V - 2