2023-08-24 07:24:04 by Bharadwajraki
This page has been fully proofread twice.
तदलमतिक्रामति कालो मथनस्य । वत्सा देवासुराः, वत्स भोश्चतुरानन, शृणुतावहिताः परमुपदेशमिमम् ।
अमुं यं वीक्षध्वे पुरुषमरविन्देक्षणमसौ
सवित्री सर्वेषामपि च भवतां मत्प्रियतमा ।
मदाज्ञामस्याज्ञां मम भजनमेतस्य भजनं
विजानन्तो यूयं विनमत तथास्मिन्मयि यथा ॥ ४२ ॥
भगवन् अरविन्दलोचन जानामि भवतो मयि प्रीतिमन्यादृशीम् ।
[commentary]
निगृह्णन् निग्रहं कुर्वन्नहम्भावेनेति भावः । अन्यस्य स्वीयव्यतिरिक्तस्य कस्य व्यसनं दुःखं अहरं अपहृतवानस्मीति भावः । परकीयस्य एतमुपकारं न कृतवानिति भावः । [^१]स्वे स्वीये कुटुम्बे पोष्यवर्गे व्यापृतः व्यग्रः अहं भवतां स्तुतिषु भवत्कर्तृकस्तोत्रेष्वित्यर्थः । भूयः अधिकं लज्जे जिह्रेमीत्यर्थः ॥ तदिति ॥ तत्तस्मात् मथनस्य कालः अवसरः अतिक्रामति अतिगच्छतीत्यर्थः । अलं स्तवनेन साध्यं नास्तीत्यर्थः ॥ वत्सा इति ॥ वत्साः किशोराः हे देवासुराः वत्स भो चतुरानन हे विरिञ्च इत्यर्थः । यूयं अवहिताः अवधानसहिताः परमुत्कृष्टं इमं मदीयमिति भावः । उपदेशं हितवचनं श्रोतव्यं शृणुध्वमित्यर्थः ॥ अमुमिति ॥ अरविन्दे इव ईक्षणे नेत्रे यस्य स तथाभूतममुं परिदृश्यमानं यं विष्णुं पुरुषं पुरुषाकृतिं वीक्षध्वे पश्यथेत्यर्थः । असौ विष्णुः मत्प्रियतमा ममात्यन्तदयिता सर्वेषां च भवतामपि सवित्री जनयत्रीत्यर्थः । तथा चोक्तम् -- 'योऽयं चकास्ति गगनार्णवरत्नकान्तिर्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वा ममार्धमिदमन्तकसूदनस्य देवी त्वमेव स इति प्रतिपादयन्ति' इति । 'कदाचिल्ललिता देवी धृतश्रीविष्णुविग्रहा । वेणुनादविनोदेन करोति विवशं जगत्' इत्यादिवचनैः पार्वतीविष्ण्वोरभेदादिति भावः । ततः कारणाद्यूयं चतुराननप्रभृतयः भवन्तः अस्य श्रीविष्णोः आज्ञां मदाज्ञां मन्निदेश इति, एतस्य हरेर्भजनं मम परशिवस्य भजनं सेवनम्, अथवा अस्याज्ञां अस्य भजनं मम भजनमित्यन्वयः । विजानन्तः विदन्तस्सन्तः मयि नमनादि यथा कुरुथ तथा अस्मिन् विष्णौ विनमत विशेषेण नमस्कुरुतेत्यर्थः ॥ भगवन्निति ॥ हे भगवन् अरविन्दलोचन पुण्डरीकाक्ष
[^१] 'स्वे कुटुम्बे व्यापृतः लज्जे' इति वदन् परमेश्वरः सर्वान्तर्यामी स एवेति दर्शयति ॥