This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
 
तदलमतिक्रामति कालो मथनस्य । वत्सा देवासुराः, वत्स भोश्चतुरानन,
शृणुतावहिताः परमुपदेशमिमम् ।

 
अमुं यं वीक्षध्वे पुरुषमर विन्देक्षणमसौ
 

सवित्री सर्वेषामपि च भवतां मत्प्रियतमा ।

मदाज्ञामस्याज्ञां मम भजनमेतस्य भजनं
 
S
 

विजानन्तो यूयं विनमत तथास्मिन्मयि यथा ॥ ४२ ॥

 
भगवन् अरविन्दलोचन जानामि भवतो मयि प्रीतिमन्यादृशीम् ।
 
L
 

 
[commentary]
 
निगृह्णन् निग्रहं कुर्वन्नहम्भावेनेति भावः । अन्यस्य स्वीयव्यतिरिक्तस्य कस्य व्यसनं
दुःखं अहरं अपहृतवानस्मीति भावः । परकीयस्यें एतमुपकारं न कृतवानिति भावः ।
'
[^१]स्वे स्वीये कुटुम्बे पोष्यवर्गे व्यापृतः व्यंग्रः अहं भवतां स्तुतिषु भवत्कर्तृकस्तो-
त्रेष्वित्यर्थः । भूयः अधिकं लज्जे जिह्रेमीत्यर्थः ॥ तदितिःति ॥ तत्तस्मात् मथनस्य
काल: अवसर: अतिकालः अवसरः अतिक्रामति अतिगच्छतीत्यर्थ:थः । अलं स्तवनेन साध्यं नास्ती-
त्यर्थः ॥ त्सा इति ॥ वत्साः किशोराः हे देवासुराः वत्स भो चतु-
रानन हे विरिञ्च इत्यर्थः । यूयं अवहिताः अवधानसहिताः परमुत्कृष्टं इमं
मदीयमिति भावः । उपदेशं हितवचनं श्रोतव्यं शृणुध्वमित्यर्थः ॥ अमुमिति ॥
अरविन्दे इव ईक्षणे नेत्रे यस्य स तथाभूतममुं परिदृश्यमानं यं विष्णुं पुरुषं
पुरुषाकृतिं वीक्षध्वे पश्यथेत्यर्थः । असौ विष्णुः मत्प्रियतमा ममात्यन्तदयिता
सर्वेषां च भवतामपि सवित्री जनयत्रीत्यर्थः । तथा चोक्तम् -- 'थोयोऽयं चकास्ति
गगनार्णवरत्नकान्तिर्योऽयं सुरासुरगुरुः पुरुषः पुराण:णः । यद्वा ममार्मिदमन्त-
कसूदनस्य देवी त्वमेव स इति प्रतिपादयन्ति' इति । 'कदाचिल्ललिता देवी
धृत श्रीविष्णु विग्रहा। चे । वेणुनादविनोदेन करोति विवशं जगत्' इत्यादिवचनैः पार्व-
तीविष्ण्वोर भेदादिति भावः । ततः कारणाद्यूयं चतुराननप्रभृतयः भवन्तः अस्य
श्रीविष्णो:णोः आज्ञां मदाज्ञां मन्निदेश इति, एतस्य हरेर्भजनं मम परशिवस्य भज
नं सेवनम्, अथवा अस्याज्ञां अस्य भजनं मम भजनमित्यन्वयः । विजानन्तः विद-
न्तस्सन्तः मयि नमनादि यथा कुरुथ तथा अस्मिन् विष्णौ विनमत विशेषेण
नमस्कुरुतेत्यर्थः ॥ भगवत्रिन्निति ॥ हे भगवन् अरविन्दुलोचन पुण्डरीकाक्ष
 
4
 
*
 
1.

 
[^१]
'स्वे कुटुम्बे व्यापूपृतः लज्जे' इति वदन् परमेश्वरः सर्वान्तर्यामी स एवेति
 
दुर्भाप
दर्शयति ॥