2023-08-24 07:09:52 by Bharadwajraki
This page has been fully proofread twice.
किं बहुना ।
'त्वत्प्रसूतास्त्वया गुप्तास्त्वया व्यापारिता वयम् ।
त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे ॥' ४० ॥
इति स्तुवतो देवान् पुरशासनः पुनरित्थम् अनुशशास ।
पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशाः
दासा देवाश्शतमखमुखा दानवेशास्ततोऽपि ।
कस्यान्यस्य व्यसनमहरं कालकूटं निगृह्णन्
लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥ ४१ ॥
[commentary]
भेताळादिगणान् संमोहयन् मोहं प्रापयन् । पितृवणे श्मशाने । 'श्मशानं स्यात्पितृवणम्' इत्यमरः । नासीथा यदि न वर्तसे चेदित्यर्थः । सुकृतिनः पुण्यवन्तः इमे सुरादयः इन्द्रादयः रम्येषु आसीरन्र मणीयेषु हर्म्येषु प्रासादेषु वर्तेरन् किं इत्यर्थः । यद्येवं त्वं न कुर्यास्तदा भेताळादयः पुरग्रामादीन् प्रविश्य सर्वान् भक्षयेयुरिति भावः ॥ किं बहुनेति ॥ त्वत्प्रसूताः त्वया उत्पादिताः पूर्वमिति भावः । त्वया गुप्ताः संरक्षिताः इदानीमिति भावः । त्वया भवता व्यापारिताः भविष्याम इति शेषः । त्वां विदन्तः जानन्तः अविदन्तः । तत्त्वतः प्ररीणयामह इति पाठे नमोभिरिति शेषः । अजानन्तो वा त्वामेव
प्रणमाम नमस्कुर्महे सर्वथापि त्वच्चरणे न्यस्तात्मान इति भावः ॥ इतीति ॥ इति इत्थं, स्तुवतः स्तुतिं कुर्वतो देवान् ब्रह्मविष्ण्वादीन् पुनः इत्थं पुरशासनः त्रिपुरान्तकः अनुशशास शिक्षितवानित्यर्थः ॥ पुत्रा इति ॥ ब्रह्मनारायणाद्याः यूयं भुवनेषु लोकेषु विदिता प्रख्याताः ममेत्यादिः । पुत्रास्तनया इत्यर्थः । तथा चोक्तं वायवीयसंहितायाम् -- 'त्रयस्ते कारणात्मानस्साक्षाज्जाता महेश्वरात् । विष्णुर्जातोऽस्य वामाङ्गे ब्रह्मा त्वस्य तु दक्षिणे । पृष्ठदेशे महेशानः त्रीन्पुत्रानसृजत् प्रभुः' इति । शतमखमुखा देवा इन्द्रादयः देवाः सुराः दासाः भृत्याः । तथा चोक्तं 'शाटीपालाश्शतमखमुखाश्चन्दनद्रुर्मनोभूः' इति । दानवेशाः बलिबाणप्रभृतयः असुरश्रेष्ठाः ततोऽपि देवेभ्योऽपि इत्यर्थः । दासाः, अतिशयितभृत्या इत्यर्थः । 'भृत्ये दासेरदासेयदासगोप्यकचेटकाः' इत्यमरः । बाणरावणबलिविभीषणादीनां पारिषदकोटिप्रविष्टत्वाद्दासतरत्वमिति भावः । कालकूटं विषराजं
'त्वत्प्रसूतास्त्वया गुप्तास्त्वया व्यापारिता वयम् ।
त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे ॥' ४० ॥
इति स्तुवतो देवान् पुरशासनः पुनरित्थम् अनुशशास ।
पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशाः
दासा देवाश्शतमखमुखा दानवेशास्ततोऽपि ।
कस्यान्यस्य व्यसनमहरं कालकूटं निगृह्णन्
लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥ ४१ ॥
[commentary]
भेताळादिगणान् संमोहयन् मोहं प्रापयन् । पितृवणे श्मशाने । 'श्मशानं स्यात्पितृवणम्' इत्यमरः । नासीथा यदि न वर्तसे चेदित्यर्थः । सुकृतिनः पुण्यवन्तः इमे सुरादयः इन्द्रादयः रम्येषु आसीरन्र मणीयेषु हर्म्येषु प्रासादेषु वर्तेरन् किं इत्यर्थः । यद्येवं त्वं न कुर्यास्तदा भेताळादयः पुरग्रामादीन् प्रविश्य सर्वान् भक्षयेयुरिति भावः ॥ किं बहुनेति ॥ त्वत्प्रसूताः त्वया उत्पादिताः पूर्वमिति भावः । त्वया गुप्ताः संरक्षिताः इदानीमिति भावः । त्वया भवता व्यापारिताः भविष्याम इति शेषः । त्वां विदन्तः जानन्तः अविदन्तः । तत्त्वतः प्