2023-06-05 16:40:40 by ambuda-bot
This page has not been fully proofread.
कि बहुना ।
त्वत्प्रसूतास्त्वया गुप्तास्त्वया व्यापारिता वयम् ।
त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे ॥ ४० ॥
इति स्तुव॒तो दे॒वान् पुरशासनः पुनरित्थम् अनुशशास ।
पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशाः
दासा देवाश्शतमखमुखा दानवेशास्ततोऽपि ।
कस्यान्यस्य व्यसनमहरं कालकूटं निगृह्णन्
तुरीयाश्वासः
$
लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥४१॥
*
॥
वयं
भेताळादिगणान् संमोहयन् मोहं प्रापयन् । पितृवणे श्मशाने । 'श्मशानं स्यात्
पितृवणम् इत्यमरः । नासीथा यदि न वर्तसे चेदित्यर्थः । सुकृतिनः पुण्यवन्तः
इमे सुरादय, इन्द्रादयः रम्येषु आसीरन् रमणीयेषु हर्म्येषु प्रासादेषु वर्तेरन् किं
इत्यर्थः । यद्येवं त्वंन कुर्यास्तदा मेताळादयः पुरग्रामादीन् प्रविश्य सर्वान्
क्षयेयुरिति भावः ॥ किं बहुनेति ॥ त्वत्प्रसूताः त्वया उत्पादिताः
पूर्वमिति भावः । त्वया गुप्ता: संरक्षिताः इदानी मिति भावः । त्वया भवता
व्यापारिता: भविष्याम इति शेषः । त्वां विदन्तः जानन्तः अविदन्तः ।
तत्त्वत: प्रणयामह' इति पाठे नमोभिरिति शेषः । अजानन्तो वा त्वामेव
प्रणमाम नमस्कुर्महे सर्वथापि त्वच्चरणे न्यस्तात्मान इति भावः ॥ इतीति ॥
इति इत्थं, स्तुवतः स्तुतिं कुर्वतो देवान् ब्रह्मविष्ण्वादीन् पुनः इत्थं पुरशासनः
त्रिपुरान्तक: अनुशशास शिक्षितवानित्यर्थः ॥ पुत्रा इति ॥ ब्रह्मनारायणाद्याः
यूर्य भुवनेषु लोकेषु विदिता प्रख्याताः ममेत्यादिः ।
पुत्रास्तनया इत्यर्थः ।
तथा चोक्तं वायवीयसंहितायाम् – 'लयस्ते कारणात्मानस्साक्षाज्जाता महेश्वरात् ।
विष्णुर्जातोऽस्य वामाङ्गे ब्रह्मा त्वस्य तु दक्षिणे । पृष्ठदेशे महेशान: त्रीन्
पुत्रानसृजत् प्रभुः' इति । शतमखमुखा देवा इन्द्रादयः देवाः सुरा: दासाः
भृत्याः । तथा चोक्तं 'शाटीपालाश्शतमखमुखाश्चन्दनदुर्मनोभूः' इति । दानवेशाः
बलियांणप्रभृतयः असुरश्रेष्ठाः ततोऽपि देवेभ्योऽपि इत्यर्थः । दासाः, अतिशयित -
भृत्या इत्यर्थ: । 'भृत्ये: दासेरदासेयदासगोप्यकचेटकाः' इत्यमरः । बाणरावण-
बलिविभीषणादीनां पारिषदकोटिप्रविष्टत्वाद्दासतरत्वमिति भावः । कालकूटं विषराजं
:
S