2023-08-24 06:55:12 by Bharadwajraki
This page has been fully proofread twice.
श्रुतियन्त्रितगायत्र्यनुसन्धेय, अध्यासितवरनिकुञ्जगृहहिमाहार्य, अध्यापितहरिविरिञ्चिमुखशिवाचार्य, अर्चितानन्तविहार, सच्चिदानन्दशरीर, विजयी भव विजयी भव ।
[^१]भुञ्जीथा न हलाहलं यदि महादेव त्वमेवंविधं
भुञ्जीरन् किमिमे सुराश्चरुपुरोडाशादिहव्यं मखे ।
आसीथा न यदि स्वयं पितृवणे भूतानि सम्मोहयन्
आसीरन् किमिमे जनास्सुकृतिनो हर्म्येषु सौधेषु च ॥३९॥
[commentary]
तेषां त्रये त्रितये स्थेय स्थिरतरेत्यर्थः । 'स्थास्नुः स्थिरतरः स्थेयान्' इत्यमरः । श्रूयते इति श्रुतिरिति व्युत्पत्त्या श्रुतिः भर्गपदम् । तया यन्त्रिता या गायत्री सूर्यदेवताकगायत्री । तया अनुध्येय ध्यातव्येत्यर्थः । अध्यासितः आश्रयीकृतः वरनिकुञ्जगृहयुक्तः हिमाहार्यो हिमवत्पर्वतो येन स तथाभूत । 'अहार्यधरपर्वताः' इत्यमरः । अध्यापिताः हरिविरिञ्चिप्रमुखाः विष्णुब्रह्मप्रभृतयः शैवाचार्याः शैवशास्त्रव्याख्यातारः येन स तथाभूत । 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुतेः । अनन्ता असङ्ख्येयाः विहाराः विहृतयो यस्य सः । अर्चितश्चासौ अनन्तविहारश्चेति कर्मधारयः । तस्य सम्बुद्धिः । सन्तौ अबाध्यौ यौ चिदानन्दौ तावेव शरीरं यस्य स तथाभूत । विजयस्सर्वोत्कर्षस्सोऽस्यास्तीति विजयी भव विजयी भवेति द्विरुक्तिः सकलपुराणार्थसङ्ग्राहकगद्यसमाप्तिद्योतनाय ॥ भुञ्जीथा इति ॥ हे महादेव त्वं एवंविधं इत्थंप्रकारं जगद्विनाशकारणमिति भावः । हालाहलं विषं न भुञ्जीथा यदि भोजनं कुरुष्व न यदीत्यर्थः । इमे परिदृश्यमानाः इन्द्रादयस्सुराः मखेषु यागेषु । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । चरुपुरोडाशादिकं हव्यं होमद्रव्यं भुञ्जीरन् भोजनं कुर्वीरन् किमित्यर्थः । यजमानदेवयजनयोरुभयोर्गरळेन विनाशो भवेदिति भावः । स्वयं त्वमित्यस्यानुषङ्गः । भूतानि । 'भूतं न्याये समे प्राप्ते यथार्थातीतयोरपि । क्लीबे त्वयं पिशाचादौ' इति नानार्थमाला ।
[^१] विषभक्षकता, वृषभवाहनता, सूर्याभरणता, पितृवणवासिता चेत्यमङ्गलाभासानां समाधाता श्रीमानयं कविरिति विभावनीयम् ।