This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
श्रुतियन्त्रितगायत्र्यनुसन्धेय, अभ्यासितवरनिकुञ्जगृहहिमाहार्य, अध्या-
पितहरिविरिञ्चिमुखशिवाचार्य, अर्चितानन्तविहार, सच्चिदानन्दशरीर,
विजयी भव विजयी भव ।
 
ARR
 
#भुञ्जीथा न हलाहलं यदि महादेव त्वमेवंविध
 
भुञ्जीरन् किमिमे सुराश्वरुपुरोडाशादिहव्यं मखे ।
"आसीथा न यदि स्वयं पितृवणे भूतानि सम्मोहयन्
आसीरन् किमिमे जनास्सुकृतिनो हर्म्येषु सौधेषु च ॥३९॥
 
>
 
7
 
तेषां त्रयेत्रितये *स्थेय स्थिरतरेत्यर्थ: । 'स्थास्नुः स्थिरतर: स्थेयान्' इत्यमरः ।
श्रूयते इति श्रुतिरिति व्युत्पत्त्या श्रुतिः भर्गपदम् । तया यन्त्रिता या
गायत्री सूर्यदेवता कगायत्री । तया अनुध्येय ध्यातव्येत्यर्थः । अध्यासितः
आश्रयीकृतः वरनिकुञ्जगृहयुक्तः हिमाहार्यो - हिमवत्पर्वतो येन स तथाभूत ।
'अहार्यघर पर्वताः' इत्यमरः । अध्यापिताः हरिविरिञ्चिप्रमुखाः विष्णुब्रह्मा-
प्रभृतयः शैवाचार्याः शैवंशास्त्रव्याख्यातारः येन स तथाभूत । 'मन्त्रव्याख्या- -
कृद्दीचार्यः' इत्यमरः । यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च
प्रहिणोति तस्मै इति श्रुतेः । अनन्ता असङ्ख्या विहारा: विहृतयो यस्य
स. अर्चितश्चासौ अनन्त विहारश्चेति कर्मधारयः । तस्य सम्बुद्धिः ।
सन्तौ अबाध्यौ यौ चिदानन्दौ तावेव शरीरं यस्य स तथाभूत । विजय-
सर्वोत्कर्ष सोऽस्यास्तीति विजयी भव विजयी भवेति द्विरुक्तिः सकलपुराणार्थ-
सङ्क्राहकगद्यसमाप्तिद्योतनाय ॥ भुञ्जीथा इति ॥ हे महादेव त्वं एवंविधं
इत्यप्रकार जगद्विनाशकारण मिति भावः । हालाहलं विषं न भुञ्जीथां
यदि भोजनं कुरुष्व न यदीत्यर्थः । इमे परिदृश्यमानाः इन्द्रादयस्सुराः
इत्यमरः । चरुपुरोडाशादिकं हव्यं
 
4
 
1-
मरखेषु यागेषु । 'सप्ततन्तुर्मखः क्रतुः
 

 
होमद्रव्यं भुञ्जीरन भोजनं कुर्वीरन् किमित्यर्थः । यजमानदेवयजनयोरुभयोर्गरळेन
 

 
विनाशो भवेदिति भावः । स्वयं त्वमित्यस्यानुषङ्गः । भूतानि । 'भूतं न्याये
समे प्राप्ते यथार्थातीतयोरपि । क्लीबे त्वयं पिशाचादौ ' इति नानार्थमाला ।
 
1. विषभक्षकता, वृषभवाहनता सूर्याभरणता, पितृवणवासिता चेत्यमङ्गला-
मांसानां समाधाता श्रीमानयं कविरिति विभावनीयम् ।