This page has been fully proofread twice.

चितासङ्गघोरासुरपुरधूमकेतुस्मित वाराकरगतरामसेतुस्थित रक्षणलीलाविलासaदक्षिणकैलासवास आताभ्रलोलनयन एकाम्रमूलभवन अभिलषितविधुसेवन श्रीशैलशिखरपावन द्राक्षामधुरवाग्गुम्भ रुद्राक्षरुचिरदोः स्तम्भ कालकण्ठरुचिघटितलावण्य नीलकण्ठमखिनिहितकारुण्य सेवापरन्त्रपावक शैवागमतन्त्रकारक, सर्गस्थितिसंहृतिकार्यत्रयस्थेय, भर्ग-
 
[commentary]
 
भावः । घोराः भयङ्कराः येऽसुराः, तेषां पुरं तस्य धूमकेतुरूपं उत्पातरूपं स्मितं हासो यस्य स तथाभूत । 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । वाराशिः दक्षिणसमुद्रः तं गतः प्राप्तः रामकृतो यः सेतुः तस्मिन् स्थितः तस्य सम्बुद्धिः । रामेश्वररूपेणेति भावः । रक्षणलीलाया विकासो यस्य स तथाभूत । दक्षिणकैलास काळहस्तिक्षेत्रं, तस्मिन् वासः आवासः यस्य स तथाभूत । आताभ्रे ईषदरुणे
लोले चञ्चले नयने यस्य स तथाभूत । चन्द्रसूर्यरूपत्वान्नयनयोश्चाञ्चल्यमिति भावः । एकमत्यन्तं आम्रस्य चूतस्य मूलं भवनं निकेतनं यस्य स तथाभूत । काञ्चीक्षेत्रे चूतवृक्षमूले एकाम्रेश्वररूपेणावस्थानादिति भावः । अभिलषितमपेक्षितं विधुना विष्णुना सेवनं यस्य स तथाभूत । 'विधुर्विष्णौ चन्द्रमसि परिच्छेदे बलेऽवधिः' इत्यमरः । श्रीशैलः श्रीशैलसंज्ञको गिरिः तच्छिखरं पावयति पवित्रयतीति तथाभूत । द्राक्षावन्मधुराः वाग्गुम्भाः वाक्सन्दर्भाः यस्य स तथाभूत । रुद्राक्षाः रुद्राक्षमणयः तैः रुचिराः मनोहराः दोःस्तम्भाः बाहुदण्डा यस्य स तथाभूत । काला श्यामला या कण्ठस्य रुचिः कान्तिः तया घटितं सम्बद्धं लावण्यं सौन्दर्यं यस्य स तथाभूत । नीलकण्ठमखी एतद्ग्रन्थकर्तृनीलकण्ठयज्वा तस्मिन्निहितं आहितं कारुण्यं करुणा येन स तथाभूत । सेवापरतन्त्रः
पावकः अग्निः यस्य स तथाभूत । अग्निस्त्वागत्य नेत्ररूपेण स्थित्वा शिवं सेवत इति भावः । शैवानि शिवसम्बन्धीनि ये आगमाः यानि तन्त्राणि च सिद्धान्ताश्च । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । तयोः
कारकः निर्माता तस्य सम्बुद्धिः । तथा चोक्तं कूर्मपुराणे 'तस्माद्वै वेदबाह्यानां रक्षणार्थं च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ॥ एवं सञ्चोदितो रुद्रः माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥' इति । सर्गस्थितिसंहृतयः सृष्टिस्थितिप्रळया एव कार्याणि
 
a. 'विकास' इति व्याख्यापाठः ।