This page has been fully proofread once and needs a second look.

३२१
 
चितासङ्घोरासुरपुरधूमकेतुस्मित वाराकरगतरामसेतुस्थित रक्षणली-
लाविलासः सaदक्षिणकैलासवास आताम्भ्रलोलनयन एकाग्म्रमूलभवन अभि-
लषितविधुसेवन श्रीशैलशिखरपावन द्राक्षामधुरवाग्गुम्भ रुद्राक्षरुचिरदोः
स्तम्भ कालकण्ठरुचिघटितलावण्य नीलकण्ठ मखिनिहितकारुण्य सेवापर-
न्त्रपावक शैवागमतन्त्रकारक, सर्गस्थितिसंहृतिकार्यत्रयस्थेय, भर्ग-
तुरीयाश्वासः
 

 
[commentary]
 
भावः । घोराः भयङ्कराः येऽसुराः, तेषां पुरं तस्य धूमकेतुरूपं उत्पातरूपं स्मितं
हासो यस्य स तथाभूत । 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । वाराशि:शिः दक्षि-
णसमुद्रः तं गतः प्राप्तः रामकृतो यः सेतुः तस्मिन् स्थितः तस्य सम्बुद्धिः ।
रामेश्वररूपेणेति भावः । रक्षणलीलाया विकासो यस्य स तथाभूत । दक्षिणकैला-
स.
काळहस्तिक्षेत्रं, तस्मिन् वास:सः आवासः यस्य स तथाभूत । आताम्भ्रे ईषदरुणे

लोले चञ्चले नयने यस्य स तथाभूत । चन्द्रसूर्यरूपत्वान्नयनयोश्चाञ्चल्यमिति
भाव: 1.वः । एकमत्यन्तं आम्रस्य चूतस्य मूलं भवनं निकेतनं यस्य स तथाभूत ।
काञ्चीक्षेत्रे चूतवृक्षमुमूले एकाग्म्रेश्वररूपेणावस्थानादिति भावः । अभिलषितमपेक्षि-
तं विधुना विष्णुना सेवनं यस्य स तथाभूत । 'विधुर्विष्णौ चन्द्रमसि परिच्छेदे
बलेऽवधि: धिः' इत्यमरः । श्रीशैल:लः श्रीशैलसंज्ञको गिरिः तच्छिखरं पावयति पवि
त्रयतीति तथाभूत । द्राक्षावन्मधुराः वाग्गुम्भाः वाक्सन्दर्भाः यस्य स तथाभूत ।
रुद्राक्षाः रुद्राक्षमणयः तैः रुचिरा:राः मनोहरा : दो : राः दोःस्तम्भा:भाः बाहुदण्डा यस्य स
तथाभूत । काला श्यामला या कण्ठस्य रुचि:चिः कान्तिः तया घटितं सम्बद्धं
लावण्यं सौन्दर्यं यस्य स तथाभूत । नीलकण्ठमखी एतद्ग्रन्थकर्तृनीलकण्ठयज्वा
तस्मिन्निहितं आहितं कारुण्यं करुणा येन स तथाभूत । सेवापरतन्त्रः

पावकः अभिःग्निः यस्य स तथाभूत । अग्निस्त्वागत्य नेत्ररूपेण स्थित्वा
शिवं सेवत इति भावः । शैवानि शिवसम्बन्धीनि ये आगमाः यानि
 
"
 
F
 
तन्त्राणि च सिद्धान्ताश्च । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । तयोः
 

कारकः निर्माता तस्य सम्बुद्धिः । तथा चोक्तं कूर्मपुराणे 'तस्माद्वै
वेदबाह्यानां रक्षणार्थं च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ॥
एवं सञ्चोदितो रुद्रः माधवेंवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽषि
पि शिवेरितः ॥"' इति । सर्गस्थितिसंहृतयः सृष्टिस्थितिप्रळया एव कार्याणि
 
"
 

 
a. 'विकास' इति व्याख्यापाठः ।
 
N
 
- 41