2023-06-05 16:40:40 by ambuda-bot
This page has not been fully proofread.
३२१
चितासङ्घोरासुरपुरधूमकेतुस्मित वाराकरगतरामसेतुस्थित रक्षणली-
लाविलासः दक्षिणकैलासवास आताम्रलोलनयन एकाग्रमूलभवन अभि-
लषितविधुसेवन श्रीशैलशिखरपावन द्राक्षामधुरवाग्गुम्भ रुद्राक्षरुचिरदोः
स्तम्भ कालकण्ठरुचिघटितलावण्य नीलकण्ठ मखिनिहितकारुण्य सेवापर-
न्त्रपावक शैवागमतन्त्रकारक, सर्गस्थितिसंहतिकार्यत्रयस्थेय, भर्ग-
तुरीयाश्वासः
भावः । घोराः भयङ्कराः येऽसुराः, तेषां पुरं तस्य धूमकेतुरूपं उत्पातरूपं स्मितं
हासो यस्य स तथाभूत । 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । वाराशि: दक्षि-
णसमुद्रः तं गतः प्राप्तः रामकृतो यः सेतुः तस्मिन् स्थितः तस्य सम्बुद्धिः ।
रामेश्वररूपेणेति भावः । रक्षणलीलाया विकासो यस्य स तथाभूत । दक्षिणकैला-
स. काळहस्तिक्षेत्र, तस्मिन् वास: आवासः यस्य स तथाभूत । आताम्रे ईषदरुणे
लोले चञ्चले नयने यस्य स तथाभूत । चन्द्रसूर्यरूपत्वान्नयनयोश्चाञ्चल्यमिति
भाव: 1. एकमत्यन्तं आम्रस्य चूतस्य मूलं भवनं निकेतनं यस्य स तथाभूत ।
काञ्चीक्षेत्रे चूतवृक्षमुले एकाग्रेश्वररूपेणावस्थानादिति भावः । अभिलषितमपेक्षि-
तं विधुना विष्णुना सेवनं यस्य स तथाभूत । 'विधुर्विष्णौ चन्द्रमसि परिच्छेदे
बलेऽवधि: ' इत्यमरः । श्रीशैल: श्रीशैलसंज्ञको गिरिः तच्छिखरं पावयति पवि
तयतीति तथाभूत । द्राक्षावन्मधुराः वाग्गुम्भाः वाक्सन्दर्भाः यस्य स तथाभूत ।
रुद्राक्षाः रुद्राक्षमणयः तैः रुचिरा: मनोहरा : दो : स्तम्भा: बाहुदण्डा यस्य स
तथाभूत । काला श्यामला या कण्ठस्य रुचि: कान्तिः तया घटितं सम्बद्धं
लावण्यं सौन्दर्य यस्य स तथाभूत । नीलकण्ठमखी एतद्ग्रन्थकर्तृनीलकण्ठयज्वा
तस्मिन्निहित आहितं कारुण्यं करुणा येन स तथाभूत । सेवापरतन्त्रः
पावकः अभिः यस्य स तथाभूत । अग्निस्त्वागत्य नेत्ररूपेण स्थित्वा
शिवं सेवत इति भावः । शैवानि शिवसम्बन्धीनि ये आगमाः यानि
"
F
तन्त्राणि च सिद्धान्ताश्च । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । तयोः
कारकः निर्माता तस्य सम्बुद्धिः । तथा चोक्तं कूर्मपुराणे 'तस्माद्वै
वेदबायानां रक्षणार्थं च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ॥
एवं सञ्चोदितो रुद्रः माधवेंन मुरारिणा । चकार मोहशास्त्राणि केशवोऽषि
शिवेरितः ॥" इति । सर्गस्थितिसंहृतयः सृष्टिस्थितिप्रळया एव कार्याणि
"
a 'विकास' इति व्याख्यापाठः ।
N
- 41