This page has been fully proofread twice.

हितगम्य, स्वभाव, कैवल्यवचनगम्यप्रभाव, अखर्वमखाधिराज्यप्रताप, अथर्वशिखानुवाद्यस्वरूप, अगर्वनरस्तुतिमुदित, अथर्वशिरःश्रुतिविदित, नादान्तविभावनीय, वेदान्तविबोधनीय, प्रणतार्तिहर, प्रणवार्थसार, मुग्धलावण्याधार, शुद्धचैतन्याकार, आशीविषधारक, काशीपुरनायक, हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलितापाङ्ग गोकर्णर-
 
[commentary]
 
सद्योजातवामदेवादिस्वरूपाः आकारा यस्य स तथाभूत । वेदा एवाश्ववराः तैरुपहितं विधृतं स्वाम्यं यस्य स तथाभूत । [^१]श्वेताश्वतरसंज्ञिका या उपनिषत् तया गम्य ज्ञेय । चापल्यं इन्द्रियलौल्यं तद्रहिताः ये मुनयः तैर्गम्यः वेद्यः स्वभावो यस्य स तथाभूत । कैवल्यवचनानि कैवल्योपनिषद्वचांसि 'उमासहायम्' इत्यादीनि । तैर्गम्यः प्रभावः स्वरूपं यस्य स तथाभूत । अखर्वौ अनल्पौ मखाधिराज्यं यागाधिपत्यं तच्च प्रतापश्चेत्येतौ यस्य स तथाभूत । 'आ वो राजानमध्वरस्य रुद्रँ होतारम्' इति श्रुतेः । अथर्वशिखा नाम काचिदुपनिषत् । तया प्रतिपाद्यं स्वरूपं यस्य स तथाभूत । अविद्यमानो गर्वो यस्य स तथाभूतो यो नरोऽर्जुनः तत्कृतया स्तुत्या मुदित हृष्ट । अर्जुनस्य पाशुपतास्त्रलाभावसर इति भावः । अथर्वशिखा नाम पञ्चरुद्रान्तर्गता काचन उपनिषत् । तन्नामिका या श्रुतिः तया विदित ज्ञात । नादो नाम प्रणवचरमावयवस्तस्यान्तेऽवसाने विभावनीय ध्येयस्वरूपेत्यर्थः । वेदान्तैरुपनिषद्भिः विबोधनीय विज्ञेयेत्यर्थः । प्रणतानामस्मदादीनां आर्तिहर पीडाविनिवारकेत्यर्थः । प्रणवस्य ओङ्कारस्य अर्थभूतश्चासौ सारश्चेति कर्मधारयः तस्य सम्बुद्धिः । मुग्धस्सुन्दरश्चासौ लावण्यस्याधारश्चेति समानाधिकरणसमासः । तस्य सम्बुद्धिः । शुद्धः रजस्तमोभ्यामसंमिश्रः चैतन्यस्याकारः स्वरूपं यस्य स तथाभूत । आशीविषाणां सर्पाणां धारको धर्ता तस्य सम्बुद्धिः । आभरणत्वेनेति भावः । काशीपुरस्य [^१]वाराणस्याः नायक नाथ। हृदम्बुजे हृदयकमले गतः प्राप्तः विलासः अभिव्यक्तिर्यस्य स तथाभूत । चिदम्बरं चिदम्बरक्षेत्रं तस्मिन् कृतः रचितः निवासः आवासः यस्य स तथाभूत । आकर्णं कर्णावधि चलितावपाङ्गौ यस्य स तथाभूत । गोकर्णं पश्चिमसमुदतीरवृत्तिगोकर्णक्षेत्रं तस्मिन् रचितः आसङ्गः आसक्तिर्येन स तथाभूत । तत्र महाबलिस्वामिरूपेणावस्थानादिति
 
[^१] श्वेताश्वतर, कैवल्य, अथर्वशिखाद्या उपनिषदः शिवमहिमप्रतिपादिकाः ।
 
[^२] काशी, चिदम्बर, गोकर्ण, रामेश्वर, कालहस्ति, काञ्चीक्षेत्र, श्रीशैल, प्रभृतिदिव्यक्षेत्रकृतसन्निधानः परमशिवः कविना स्मार्यते ॥