This page has been fully proofread once and needs a second look.

२२०
 
नीलकण्ठ विजये सव्याख्याने
 
हितगम्य, स्वभाव, कैवल्य वचनगम्य प्रभाव, अखर्व मखाधिराज्यप्रताप,
अथर्वशिखानुवाद्यस्वरूप, अगर्वनरस्तुतिमुदित, अथर्वशिरःश्रुतिविदित,
नादान्तविभाव नीय, वेदान्तविबोधनीय, प्रणतार्तिहर, प्रणवार्थसार,
मुग्धलावण्याधार, शुद्धचैतन्याकार, आशीविषधारक, काशीपुरनायक,
हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलितापाङ्ग गोकर्णर-

 
[commentary]
 
सद्योजातवामदेवादिस्वरूपा:पाः आकारा यस्य स तथाभूत । वेदा एवाश्ववराः
तैरुपतिहितं विधृतं स्वाम्यं यस्य स तथाभूत । [^१]श्वेताश्वतरसंज्ञिका या उपनिषत् तया
गे
म्य ज्ञेय । चापल्यं इन्द्रियलौल्यं तद्रहिताः ये मुनयः तैर्गम्यः वेद्यः स्वभावो यस्य
स तथाभूत । कैवल्यवचनानि कैवल्योपनिषद्वचांसि 'उमासहायम्' इत्यादीनि ।
तैर्गम्यः प्रभावः स्वरूपं यस्य स तथाभूत । अखर्वोवौ अनल्पौ मखाधिराज्यं यागा-
घि
धिपत्यं तच्च प्रतापश्चेत्येतौ यस्य स तथाभूत । 'आ वो राजानमध्वरस्य रुद्रं
रँ होतारम्' इति श्रुतेः । अथर्वशिखा नाम काचिदुपनिषत् । तया प्रतिपाद्यं स्वरूपं
यस्य स तथाभूत । अविद्यमानो गर्योवो यस्य स तथाभूतो यो नरोऽर्जुनः तत्कृतया
स्तुत्या मुदित हृष्ट । अर्जुनस्य पाशुपतास्त्रलाभावसर इति भावः । अथर्वशिखा
नाम पञ्चरुद्रान्तर्गता काचन उपनिषत् । तन्नामिका या श्रुतिः तया विदित
ज्ञात । नादो नाम प्रणवचरमावयवस्तस्यान्तेऽवसाने विभावनीय ध्येयस्वरूपेत्यर्थः ।
वेदान्तैरुपनिषद्भिः विबोधनीय विज्ञेयेत्यर्थः । प्रणतानामस्मदादीनां आर्तिहर
पीडाविनिवारकेत्यर्थः । प्रणवस्य ओङ्कारस्य अर्थभूतश्चासौ सारश्चेति कर्मधारयः
तस्य सम्बुद्धिः । मुग्धस्सुन्दरश्चासौ लावण्यस्याधारश्चेति समानाधिकरण -
समासः । तस्य सम्बुद्धिः । शुद्धः रजस्तमोभ्यामसंमिश्र :रः चैतन्यस्याकार:रः स्वरूपं
यस्य स तथाभूत । आशीविषाणां सर्पाणां धारको र्ता तस्य सम्बुद्धिः । आभर-
त्वेनेति भावः । काशीपुरस्य [^१]वाराणस्याः नायक नाथ। हृदम्बुजे हृदयकमले
गतः प्राप्तः विलास:सः अभिव्यक्तिर्यस्य स तथाभूत । चिदम्बरं चिदम्बरक्षेत्रं तस्मिन्
कृत:तः रचितः निवासः आवासः यस्य स तथाभूत । आकर्णं कर्णावधि चलिताव-
पाङ्गौ यस्य स तथांथाभूत । गोकर्णं पश्चिमसमुदतीरवृत्तिगोकर्णक्षेत्रं तस्मिन् रचितः
आस:ङ्गः आसक्तिर्येन स तथाभूत । तत्र महाबलिखा स्वामिरूपेणावस्थानादिति
 
1.

 
[^१]
श्वेताश्वतर, कैवल्य, अथर्वशिखाद्या उपनिषदः शिवमहिमप्रतिपादिकाः
2.

 
[^२]
काशी, चिदम्बर, गोकर्ण, रामेश्वर, कालहस्ति, काञ्चीक्षेत्र,
श्रीशैल, प्रभृतिदिव्यक्षेत्रकृतसन्निधानः परमशिवः कविना स्मार्यते ॥