2023-06-05 16:40:40 by ambuda-bot
This page has not been fully proofread.
२२०
नीलकण्ठ विजये सव्याख्याने
हितगम्य, स्वभाव, कैवल्य वचनगम्य प्रभाव, अखर्व मखाधिराज्यप्रताप,
अथर्वशिखानुवाद्यस्वरूप, अगर्वनरस्तुतिमुदित, अथर्वशिरःश्रुतिविदित,
नादान्तविभाव नीय, वेदान्तविबोधनीय, प्रणतार्तिहर, प्रणवार्थसार,
मुग्धलावण्याधार, शुद्धचैतन्याकार, आशीविषधारक, काशीपुरनायक,
हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलितापाङ्ग गोकर्णर-
सद्योजातवामदेवादिस्वरूपा: आकारा यस्य स तथाभूत । वेदा एवाश्ववराः
तैरुपति विधृतं स्वाम्यं यस्य स तथाभूत । श्वेताश्वतरसंज्ञिका या उपनिषत् तया
गेम्य ज्ञेय । चापल्यं इन्द्रियलौल्यं तद्रहिताः ये मुनयः तैर्गम्यः वेद्यः स्वभावो यस्य
स तथाभूत । कैवल्यवचनानि कैवल्योपनिषद्वचांसि 'उमासहायम्' इत्यादीनि ।
तैर्गम्यः प्रभावः स्वरूपं यस्य स तथाभूत । अखर्वो अनल्पौ मखाधिराज्य यागा-
घिपत्यं तच्च प्रतापश्चेत्येतौ यस्य स तथाभूत । 'आ वो राजानमध्वरस्य रुद्रं
होतारम्' इति श्रुतेः । अथर्वशिखा नाम काचिदुपनिषत् । तया प्रतिपाद्यं स्वरूपं
यस्य स तथाभूत । अविद्यमानो गर्यो यस्य स तथाभूतो यो नरोऽर्जुनः तत्कृतया
स्तुत्या मुदित हृष्ट । अर्जुनस्य पाशुपतास्त्रलाभावसर इति भावः । अथर्वशिखा
नाम पञ्चरुद्रान्तर्गता काचन उपनिषत् । तन्नामिका या श्रुतिः तया विदित
ज्ञात । नादो नाम प्रणवचरमावयवस्तस्यान्तेऽवसाने विभावनीय ध्येयस्वरूपेत्यर्थः ।
वेदान्तैरुपनिषद्भिः विबोधनीय विज्ञेयेत्यर्थः । प्रणतानामस्मदादीनां आर्तिहर
पीडाविनिवारकेत्यर्थः । प्रणवस्य ओङ्कारस्य अर्थभूतश्चासौ सारश्चेति कर्मधारयः
तस्य सम्बुद्धिः । मुग्धस्सुन्दरश्चासौ लावण्यस्याधारश्चेति समानाधिकरण -
समासः । तस्य सम्बुद्धिः । शुद्धः रजस्तमोभ्यामसंमिश्र : चैतन्यस्याकार: स्वरूपं
यस्य स तथाभूत। आशीविषाणां सर्पाणां धारको घर्ता तस्य सम्बुद्धिः । आभर-
त्वेनेति भावः । काशीपुरस्य वाराणस्याः नायक नाथ। हृदम्बुजे हृदयकमले
गतः प्राप्तः विलास: अभिव्यक्तिर्यस्य स तथाभूत । चिदम्बरं चिदम्बरक्षेत्रं तस्मिन्
कृत: रचितः निवासः आवासः यस्य स तथाभूत । आकर्ण कर्णावधि चलिताव-
पाङ्गौ यस्य स तथांभूत । गोकर्णं पश्चिमसमुदतीरवृत्तिगोकर्णक्षेत्रं तस्मिन् रचितः
आस: आसक्तियन स तथाभूत । तत्र महाबलिखा मिरूपेणावस्थानादिति
1. श्वेताश्वतर, कैवल्य, अथर्वशिखाद्या उपनिषदः शिवमहिमप्रतिपादिकाः।
2. काशी, चिदम्बर, गोकर्ण, रामेश्वर, कालहस्ति, काञ्चीक्षेत्र,
श्रीशैल, प्रभृतिदिव्यक्षेत्रकृतसन्निधानः परमशिवः कविना स्मार्यते ॥