2023-08-24 06:05:10 by Bharadwajraki
This page has been fully proofread twice.
सहस्राहितप्रमोद तनयाभिलाषिमाधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूमुनुनम्य सव्यार्धभागभावितहरिरूपरम्य वन्दितागतश्रुतिसारनन्दिपालितप्रतिहार बुद्धनानार्थरहस्य शतमन्युमुख्यामरभक्तिगोचर, दुग्धपानार्थिथतपस्यदुपमन्युविश्राणितदुग्धसागर, अधिकसञ्चालितदुष्टपीडाचरण हरिविरिञ्चापरिदृष्टचूडाचरण, अञ्चद्धर्मवृषाधार अधर्मप्रक्षालनाधार पञ्चब्रह्ममयाकार, वेदाश्ववरोपहितस्वाभ्म्य, श्वेताश्वतरोपनिषद्गम्य, चापल्यर-
[commentary]
इति । श्रीहरिं प्रति वीरभद्रवचनमेतत् । विनयेन आनताः प्रणता ये अमृताशनाः देवास्तेषां यानि सहस्राणि तैराहितः सम्पादितः प्रमोदः आनन्दः यस्मात्स इति तथाभूत । तनयाभिलाषी पुत्रार्थी यो माधवः श्रीकृष्णः तस्य या तपस्या तपः तया कृतः प्रसादः अनुग्रहो यस्य स तथाभूत । तथा चोक्तं 'शिवानुग्रहसञ्जातः पुत्रस्साम्ब इति स्मृतः' इति । दिव्यास्त्रस्य कुठाररूपस्य प्रदानेन वितरणेन तोषितो हर्षितः यो भृगुसूनुः परशुरामः तस्य नम्यः प्रणामभाजनं तस्य सम्बुद्धिः । सव्यार्धभागे वामशरीरार्धभागे भावितं स्थापितं यद्धरिरूपं तेन रम्य रमणीयेत्यर्थः । हरिहरक्षेत्रे अद्यापि शिवः हरिहरात्मनैव वर्तत इति प्रसिद्धिः । वन्दिनां स्तुतिपाठकानां भावो वन्दिता । 'वन्दिनः स्तुतिपाठकाः' इत्यमरः । तथा आगता याः श्रुतयः ऋगादयः ताः [^१]धरतीति धरः तस्य सम्बुद्धिः । श्रुतीनां वन्दिता श्रुतिगीतासु भागवते उक्तम् । नन्दी नन्दीश्वरस्तेन पालितः रक्षितः प्रतीहारः गृहद्वारं यस्य स तथाभूत । बुद्धं विदितं नानार्थानां नानापदार्थानां रहस्यं[^१] येन स तथाभूत । सर्वज्ञत्वात्तस्येति भावः । शतमन्युः इन्द्रः मुख्यो येषां तथाभूताः ये अमराः देवाः तेषां भक्तेरनुरागविशेषस्य गोचर आस्पदभूत इत्यर्थः । दुग्धपानार्थं तपस्यन् यः उपमन्युः गन्धर्वबालः तस्मै विश्राणितः वितीर्णः क्षीरसागरः येन स तथाभूत । अधिकमत्यन्तं, चालिताः । णिजन्तात्कृतरि क्तः । सन्मार्गाज्जनान् चालयन्त इत्यर्थः । ये दुष्टास्तेषां पीडाकरण उपद्रवकारिन् । हरिविरिञ्चाभ्यां विष्णुब्रह्मभ्यां अपरिदृष्टौ चूडाचरणौ यस्य स
तथाभूत । महालिङ्गोद्भवसमय इति भावः । अञ्चन् सञ्चरन् यो धर्मरूपो वृषो वृषभः स आधारो यस्य स तथाभूत । अधर्मस्य पापस्य प्रक्षाळनमपनोदनं तस्मै आदर प्रसीद ? । महादेवमन्तरा पापापनोदनं न भवतीति भावः । पञ्चब्रह्ममयाः
[^१] '......श्रुतिसार' इति मूलपाठः ।
[^२] इदं समासतया मूलकर्तुरभिप्रेतमिति ज्ञायते ।