This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
३१९
 
दिव्यास्त्रदानतो-
सहस्राहितप्रमोद तनयाभिलाषिमाधवतपस्याकृतप्रसाद
पि
दिव्यास्त्रदानतोषितभृगुस्नुसूमुनम्य सव्यार्धभागभावितहरिरूपरम्य वन्दितागतश्रुतिसारन -
न्दिपालितप्रतिहार बुद्धनानार्थरहस्य शतमन्युमुख्या मरभक्तिगोचर, दुग्ध-
पानार्थितपस्यदुप मन्युविश्राणितदुग्धसागर, अधिकसञ्चालितदुष्टपीडाचरण
हरिविरिञ्चापरिदृष्टचूडाचरण, अञ्चद्धर्मवृषाधार अधर्मप्रक्षालनाधार पञ्च-
ब्रह्ममयाकार, वेदाश्ववरोपहितस्वाभ्य, श्वेताश्वतरोपनिषद्गम्य, चापल्यर-

 
[commentary]
 
इति । श्रीहरिं प्रति वीरभद्रवचनमेतत् । विनयेन आनताः प्रणता ये अमृता-
शनाः देवास्तेषां यानि सहस्राणि तैराहितः सम्पादितः प्रमोद :दः आनन्दः यस्मात्स
इति तथाभूत । तनया भिलाषी पुत्रार्थी यो माधवः श्रीकृष्णः तस्य या तपस्या
तप:
तपः तया कृतः प्रसादः अनुग्रहो यस्य स तथाभूत । तथा चोक्तं 'शिवानु-
ग्रहसञ्जातः पुत्रस्साम् इति स्मृतः' इति । दिव्यास्त्रस्य कुठाररूपस्य प्रदानेन
वितरणेन तोषितो हर्षितः यो भृगुसूनुः परशुराम:मः तस्य नम्य:यः प्रणामभाजनं
तस्य सम्बुद्धिः । सव्यार्धभागे वामशरीरार्धभागे भावितं स्थापितं यद्धरिरूपं तेन
रम्य रमणीयेत्यर्थः । हरिहरक्षेत्रे अद्यापि शिवः हरिहरात्मनैव वर्तत इति प्रसिद्धिः ।
वन्दिनां स्तुतिपाठकानां भावो वन्दिता । 'वन्दिनः स्तुतिपाठकाः' इत्यमरः ।
तथा आगता याः श्रुतयः ऋगादय: ता: 'यः ताः [^१]धरतीति धरः तस्य सम्बुद्धिः ।
श्रुतीनां वन्दिता श्रुतिगीतासु भागवते उक्तम् । नन्दी नन्दीश्वरस्तेन पालितः
रक्षितः प्रतीहार:रः गृहद्वारं यस्य स तथाभूत । बुद्धं विदितं नानार्थानां नानाप-
दार्थानां रहस्यं[^१] येन स तथाभूत । सर्वज्ञत्वात्तस्येति भावः । शतमन्युः इन्द्रः
मुख्यो येषां तथाभूताः ये अमरा:राः देवाः तेषां भक्तेरनुरागविशेषस्य गोचर आस्प-
द्
भूत इत्यर्थः । दुग्धपानार्थं तपस्यन् यः उपमन्युः गन्धर्वचाबालः तस्मै विश्राणितः
वितीर्ण: -णः क्षीरसागर:रः येन स तथाभूत । अधिकमत्यन्तं, चालिताः । णिज-
न्तात्कृतरि क्तः । सन्मार्गाज्जनान् चालयन्त इत्यर्थः । ये दुष्टास्तेषां पीडाकरण
उपद्रवकारिन् । हरिविरिञ्चाभ्यां विष्णुब्रह्मभ्यां अपरिदृष्टौ चूडाचरणौ यस्य स

तथाभूत । महालिङ्गोद्भवसमय इति भावः । अञ्चन् सञ्चरन् यो धर्मरूपो वृषो
वृषभ:भः स आधारो यस्य स तथाभूत । अधर्मस्य पापस्य प्रक्षाळनमपनोदनं तस्मै
आदर प्रसीद ? । महादेवमन्तरा पापापनोदनं न भवतीति भावः । पञ्चब्रह्ममयाः
 
Y
 
S
 
4.

 
[^१]
'......श्रुतिसार' इति मूलपाठः ।
2.

 
[^२]
इदं समासतया मूलकर्तुरभिप्रेत मिति ज्ञायते ।