This page has been fully proofread twice.

पातकप्रसङ्ग, [^१]विध्यादिविबुधपूजितस्वलिङ्ग, शान्तमानसानुरोध, क्षान्ततापसापराध, फालानलवलनभीषण, हालाहलगरळभूषण, अरुणांशुकन्दळमणिसुन्दरफणिकुण्डल, चरणाग्रयन्त्रितदशकन्धरभुजमण्डल, आनन्दताण्डवनटनानुबन्ध गोविन्दपूजितचरणारविन्द, विनयानतामृताशन-
 
[commentary]
 
सुन्दरेश्वरावताररे मोहितानां स्वस्त्रीणां पतिव्रतात्वशैथिल्यात्कुपिताः दारुकावनवासिनो दृप्ततापसाः महेश्वरं प्रति आभिचारिकयागं चक्रुरिति । वैयासिकोक्तयः ब्रह्मसूत्राणि तेषां गोचर विषयीभूत । तत्प्रतिपाद्यत्वादिति भावः । वैयाघ्री च सा कृत्तिश्चेति कर्मधारये 'स्त्रियाः पुंवद् --' (६.३.३४) इत्यादिना पुंवद्भावः । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । तया भासुर प्रकाशमानेत्यर्थः । अत एव गता याता परिकर्मणि आभरणादिधारणे स्पृहा इच्छा यस्य स तथाभूत । अत एव कृतः रचितः करिचर्मणः परिग्रह स्वीकारो येन सं तथाभूत । स्वध्यानेन शमितः विनाशितः पातकानां प्रसङ्गों यस्य स तथाभूत । विध्यादयो ब्रह्मादयो ये विबुधाः देवाः तैः पूजितानि स्वलिङ्गानि यस्य स तथाभूत । तथा चोक्तं सारसङ्ग्रहदीपिकायाम् 'ब्रह्मादयस्सुरास्सर्वे मुनयो यक्षराक्षसाः । गन्धर्वाश्चारणास्सिद्धा दैतेया दानवास्तदा ॥ पूजयित्वा महालिङ्गं भक्त्या सर्वार्थसिद्धिदम् । प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वजनप्रियान्' इति । शान्तमानसाः उपशान्तचिताः तेषामनुरोधः अनुसरणं यस्य स तथाभूत । क्षान्तः मर्षितः तापसानां अपराधो येन स तथाभूत । फालानलः फालनयनाग्निः तस्य यद्वलनं चलनं तेन भीषण भयङ्करेत्यर्थः । हालाहलः गरलं तत् भूषणं कण्ठाभरणं यस्य स तथाभूत । अरुणानि अंशूनां दीप्तीनां कन्दळानि येषां ते तथाभूताः मणयः येषां तथाभूता ये फणिनः सर्पाः त एव कुण्डलानि कर्णभूषणानि यस्य स तथाभूत । चरणाग्रेण यन्त्रितं निगृहीतं दशकन्धरस्य रावणस्य भुजानां मण्डलं यस्य स तथाभूत । कैलासोद्धरणसमय इति भावः । आनन्देन निरतिशयसुखेन यत्ताण्डवं नटनं नृत्तानुकृतिस्तस्यानुबन्धस्सम्बन्धो यस्य स तथाभूत । गोविन्देन वासुदेवेन पूजिते
चरणारविन्दे यस्य स तथाभूत । तथा चोक्तं देवीभागवते 'प्रायशश्शम्भुभक्तेषु, विष्णो त्वं प्रोच्यसे भवान् । एकोनेऽब्जसहस्रे स्वं ददौ नेत्राम्बुजं भवान् ॥'
 
[^१] विध्यादयः सर्वे स्वलिङ्गं प्रत्यहं सम्पूज्य कृतार्था जाताः इति महालिङ्गपूजां सर्वेषां भक्तानां दर्शयति ॥