This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
पातकप्रसङ्ग, 'विध्यादिविबुधपूजितस्वलिङ्ग, शान्तमा नसानुरोध, क्षान्त-
तापसापराध, फालानलवलनभीषण, हालाहलगरळभूषण, अरुणांशुक-
न्दळमणिसुन्दरफणिकुण्डल, चरणाग्रयन्त्रितदशकन्धरभुजमण्डल, आन-
न्दताण्डव नटनानुबन्ध गोविन्दपूजितचरणारविन्द, विनयानतामृताशन-
."
 
X
 
सुन्दरेश्वरावतारे मोहितानां स्वस्त्रीणां पतिव्रतात्वशैथिल्यात्कुपिताः दारुकावनवासिनो
हसतापसा: महेश्वरं प्रति आभिचारिकयाग चक्रुरिति । वैयासिकोक्तयः ब्रह्मसूत्राणि
तेषां गोचर विषयीभूत । तत्प्रतिपाद्यत्वादिति भावः । वैयाघ्री च सा कृतिश्चेति
कर्मधारये 'स्त्रियाः पुंवद् – (6-3-34) इत्यादिना पुंवद्भाव: । 'अजिनं चर्म
भासुर प्रकाशमानेत्यर्थः । अत एव गता याता
परिकर्मणि आभरणादिधारणे स्पृहा इच्छा यस्य स तथाभूत । अत एव कृतः
रचितः करिचर्मणः परिग्रह स्वीकारो येन सं तथाभूत । स्वध्यानेन शमित:
विनाशितः पातकानां प्रसङ्गों यस्य स तथाभूत । विघ्यादयो ब्रह्मादयो ये विबुधाः
देवा: तैः पूजितानि स्वलिङ्गानि यस्य स तथाभूत । तथा चोक्तं सारसङ्ग्र-
हृदीपिकायाम् 'ब्रह्मादयस्सुरास्सर्वे मुनयो यक्षराक्षसाः । गन्धर्वाश्चारणास्सिद्धा
दैतेया दानवास्तदा ॥ पूजयित्वा महालिङ्गं भक्तया सर्वार्थसिद्धिदम् । प्राप्ताः
कामानभीष्टांश्च तांस्तान्सर्वजनप्रियान्' इति । शान्तमानसा: उपशान्तचिताः तेषा-
मनुरोध: अनुसरणं यस्य स तथाभूत । क्षान्तः मर्षित: तापसानां अपराधो येन
स तथाभूत । फालानल : फालनयनाभिः तस्य यद्वलनं चलनं तेन भीषण भयङ्करे-
त्यर्थः । हालाहल: गरलं तत् भूषणं कण्ठाभरणं यस्य स तथाभूत । अरुणानि
अंशूनां दीप्तीनां कन्दळानि येषां ते तथाभूताः मणयः येषां तथाभूता ये फणि-
नः सर्पा: त एव कुण्डलानि कर्णभूषणानि यस्य स तथाभूत । चरणाश्रेण यन्त्रितं
निगृहीतं दशकन्धरस्य रावणस्य भुजानां मण्डलं यस्य स तथाभूत । कैला-
सोद्धरणसमय् इति भावः । आनन्देन निरतिशयसुखेन यत्ताण्डवं नटनं
मृतानुकृतिस्तस्यानुबन्धस्सम्बन्धो यस्य स तथाभूत । गोविन्देन वासुदेवेन पूजिते
चरणारविन्दे यस्य स तथाभूत । तथा चोक्तं देवीभागवते 'प्रायशरशम्भुभक्तेषु,
विष्णोः त्वं मोच्यसे: भवान् । एकोनेऽब्जसहत्रे स्वं ददौ नेत्राम्बुजं भवान् ॥ "
 
4
 
कृत्ति: स्त्री इत्यमरः । तया
 
$6
 
*
 
-
 
F
 
1. विष्यादयः सर्वे स्वलिङ्गं प्रत्यहं सम्पूज्य कृतार्था जाता: इति महालिङ्गपूजां
सर्वेषां भक्तानां दर्शयति ॥