2023-08-24 04:33:10 by Bharadwajraki
This page has been fully proofread twice.
तपतितान्तक, व्यापादितसमदान्धक, वरसंहननजटासम्भृतपरभागगौर, नरसिंहनियमनालम्बितशरभावतार, प्रपन्नभयमोचन, विभिन्नभगलोचन, प्रपञ्चदहनकारक, विरिश्चवदनहारक, सञ्चारपूतमन्दर, पञ्चायुधातिसुन्दर, अपनीतदक्षानन, अभिनीतभिक्षाटन, धारितमेरुकाननकुसुममालिकालङ्कार, दारितदारुकावनकुलपालिकाहङ्कार, समावर्जितभक्तमानसानुसार, परावर्तितदृप्ततापसाभिचार, वैयासिकोक्तिगोचर, वैयाघ्रकृत्तिभासुर, गतपरिकर्मगणस्पृह, कृतकरिचर्मपरिग्रह, स्वध्यानशमित-
[commentary]
निपतितः, अन्तको यमः यस्य स तथाभूत । व्यापादितः विहिंसितः समदः मदसहितः अन्धकासुरो येन स तथाभूत । परमुत्कृष्टं यत्संहननं शरीरम् । 'गात्रं वपुस्संहनन शरीरं वर्ष्म विग्रहः' इत्यमरः । तेन जटाभ्यस्सकाशात्सम्भृतः सम्पादितः परभागः वर्णोत्कर्षः यस्य स तथाभूतश्चासौ गौरश्चेति कर्मधारयः तस्य सम्बुद्धिः । नृसिंहस्य नृसिंहमूर्तेर्नियमनं निग्रहः तदर्थमवलम्बितो गृहीतः शरभस्यावतारो यस्य स तथाभूत । प्रपन्नानां भयं तस्य मोचन मोचक । विभिन्ने उत्पाटिते भगस्य सूर्यमूर्तिभेदस्य विलोचने येन स तथाभूत । वीरभद्रावतार इति भावः । तथा चोक्तं दक्षोपाख्याने 'भगस्य नेत्रे विपुले शतपत्रसमप्रभे । प्रसह्योत्पाटयामास वीरभद्रः प्रतापवान्' इति । प्रपञ्चस्य दहनं भस्मीभवनं तस्य कारकः कर्ता तस्य सम्बुद्धिः । प्रळयकालरुद्रादिरूपेणेति भावः । विरिञ्चेः वदनं पञ्चमवक्त्रं तस्य हारकः अपहर्ता । छेत्तेति यावत् । तस्य सम्बुद्धिः । पञ्चायुधः मदनः तद्वदतिसुन्दर मोहन । श्रीविष्णुमोहिन्यवतारे कामकोटिसौन्दर्यं दधारेति भावः । सञ्चारेण पूतः पवित्रः मन्दरो यस्य स तथाभूत । अपनीतं अपहृतं दक्षस्य प्रजापतेराननं यस्य स तथाभूत । कामेश्वरावतार इति भावः ।
अभिनीतं अभिनयं कृतं भिक्षार्थं अटनं सञ्चारः येन स तथाभूत । धारितः धृतः मेरुकाननं मेरुस्थितोद्यानं तस्य कुसुममालिकालङ्कारः येन स तथाभूत । दारितो विदारितः दारुकासंज्ञिकवने याः कुलपालिकाः कुलस्त्रियः । पतिव्रता इति यावत् । तासामहङ्कारो येन स तथाभूत । सुन्दरेश्वरावतारेणेति भावः । समावर्जितानि विषयेभ्यः प्रत्याहृतानि यानि भक्तमानसानि तेषामनुसारः अनुसरणं यस्य स तथाभूत । परावर्तितः अभिनिवर्तितः दृप्ततापसानां दारुकावनस्थतपोमदमत्तऋषीणां अभिचारः आभिचारिकं येन स तथाभूत । इदं कूर्मपुराणप्रसिद्धम् ।