2023-08-24 04:31:52 by Bharadwajraki
This page has been fully proofread once and needs a second look.
तुरीयाश्वासः
३१७
तपतितान्तक, व्यापादितसमदान्धक, वरसंहननजटासम्भृतपरभागगौर,
नरसिंहनियमनालम्बितशस्रभावतार, प्रपन्नभयमोचन, विभिन्नभगलो-
चन, प्रपञ्चदहनकारक, विरिश्चवदनहारक, सञ्चारपूतमन्दर, पञ्चायु-
धातिसुन्दर, अपनीतदक्षानन, अभिनीतभिक्षाटन, धारितमेरुकानन-
कुसुममालिकालङ्कार, दारितदारुकावनकुलपालिकाहङ्कार, समावर्जितभक्त-
मानसानुसार, परावर्तितहदृप्तता पसाभिचार, वैयासिकोक्तिगोचर, वैयाघ्रकृ-
त्तिभासुर, गतपरिकर्मगणस्पृह, कृतक रिचर्मपरिग्रह, स्वध्यानशमित-
[commentary]
निपतितः, अन्तको यमः यस्य स तथाभूत । व्यापादितः विहिंसितः
समद: समदः मदसहिततः अन्धकासुरो येन स तथाभूत । परमुत्कृष्टं यत्संहननं शरीरम् ।
' मात्रगात्रं वपुस्संहनन शरीरं वर्ष्म विग्रहः' इत्यमरः । तेन जटाभ्यस्सकाशात्
सम्भृत:तः सम्पादितः परभाग:गः वर्णोत्कर्षः यस्य स तथाभूतश्चासौ गौरश्चेति कर्म-
धारयः तस्य सम्बुद्धिः । नृसिंहस्य नृसिंहमूर्तेर्नियमननं निग्रहः तदर्थमवलम्बितो
गृहीतः शरभस्यावतारो यस्य स तथाभूत । प्रपन्नानां भयं तस्य मोचन मोचक ।
विभिन्नने उत्पाटिते भगस्य सूर्यमूर्तिभेदस्य विलोचने येन स तथाभूत । वीरभद्रा-
वतार इति भावः । तथा चोक्तं दक्षोपाख्याने 'भगस्य नेत्रे विपुले शतपत्रसम-
प्रभे । प्रसोसह्योत्पाटयामास वीरभद्ररः प्रतापवान्' इति । प्रपञ्चस्य दहनं भस्मीभवनं
तस्य कारक: तस्य कारकः कर्ता तस्य सम्बुद्धिः । प्रळयकालरुद्रादिरूपेणेति भावः । विरिञ्चेः
वदने वदनं पञ्चमवक्त्रं तस्य हारक:कः अपहर्ता । छेत्तेति यावत् । तस्य सम्बुद्धिः । पञ्चा-
युध: मदन:धः मदनः तद्वदतिसुन्दर मोहन । श्रीविष्णुमोहिन्यवतारे कामकोटिसौन्दर्य
यं दधारेति भावः । सञ्चारेण पूतः पवित्रः मन्दरो यस्य स तथाभूत । अपनीतं
अपहृतं दक्षस्य प्रजापतेराननं यस्य स तथाभूत । कामेश्वरावतार इति भावः ।
अभिनीतं अभिनयं कृतं भिक्षार्थथं अटनं सञ्चारः येन स तथाभूत । धारितः धृतः
मेरुकानननं मेरुस्थितोद्यानं तस्य कुसुममालिकालङ्कारः येन स तथाभूत । दारितो
विदारित:तः दारुकासंज्ञिकवने याः कुलपालिकाः कुलस्त्रिय:यः । पतिव्रता इति यावत् ।
तासामहङ्कारो येन स तथाभूत । सुन्दरेश्वरावतारेणेति भावः । समावर्जितानि
विषयेभ्य:यः प्रत्याहृतानि यानि भक्तमानसानि तेषामनुसारः अनुसरणं यस्य स
तथाभूत । परावर्तितः अभिनिवर्तितः हदृप्ततापसानां दारुकावनस्थतपोमदमत्त-
ऋषीणां अभिचार:रः आभिचारिकं येन स तथाभूत । इदं कूर्मपुराणप्रसिद्धम् ।