This page has not been fully proofread.

तुरीयाश्वासः
 
३१७
 
तपतितान्तक, व्यापादितसमदान्धक, वरसंहननजटासम्भृतपरभागगौर,
नरसिंहनियमनालम्बितशस्भावतार, प्रपन्नभयमोचन, विभिन्नभगलो-
चन, प्रपञ्चदहनकारक, विरिश्चवदनहारक, सञ्चारपूतमन्दर, पञ्चायु-
धातिसुन्दर, अपनीतदक्षानन, अभिनीतभिक्षाटन, धारितमेरुकानन-
कुसुममालिकालङ्कार, दारितदारुकावनकुलपालिकाहङ्कार, समावर्जितभक्त-
मानसानुसार, परावर्तितहप्तता पसाभिचार, वैयासिकोक्तिगोचर, वैयाघ्रकृ-
त्तिभासुर, गतपरिकर्मगणस्पृह, कृतक रिचर्मपरिग्रह, स्वध्यानशमित-
निपतितः, अन्तको यमः यस्य स तथाभूत । व्यापादितः विहिंसितः
समद: मदसहित अन्धकासुरो येन स तथाभूत । परमुत्कृष्टं यत्संहननं शरीरम् ।
' मात्र वपुस्संहनन शरीरं वर्ष्म विग्रहः' इत्यमरः । तेन जटाभ्यस्सकाशात्
सम्भृत: सम्पादितः परभाग: वर्णोत्कर्षः यस्य स तथाभूतश्चासौ गौरश्चेति कर्म-
धारयः तस्य सम्बुद्धिः । नृसिंहस्य नृसिंहमूर्तेर्नियमन निग्रहः तदर्थमवलम्बितो
गृहीतः शरभस्यावतारो यस्य स तथाभूत । प्रपन्नानां भयं तस्य मोचन मोचक ।
विभिन्न उत्पाटिते भगस्य सूर्यमूर्तिभेदस्य विलोचने येन स तथाभूत । वीरभद्रा-
वतार इति भावः । तथा चोक्तं दक्षोपाख्याने 'भगस्य नेत्रे विपुले शतपत्रसम-
प्र । प्रसोत्पाटयामास वीरभद्र प्रतापवान् इति । प्रपञ्चस्य दहनं भस्मीभवनं
तस्य कारक: कर्ता तस्य सम्बुद्धिः । प्रळयकालरुद्रादिरूपेणेति भावः । विरिञ्चेः
वदने पञ्चमवक्त्रं तस्य हारक: अपहर्ता । छेत्तेति यावत् । तस्य सम्बुद्धिः । पञ्चा-
युध: मदन: तद्वदतिसुन्दर मोहन । श्रीविष्णुमोहिन्यवतारे कामकोटिसौन्दर्य
दधारेति भावः । सञ्चारेण पूतः पवित्रः मन्दरो यस्य स तथाभूत । अपनीतं
अपहृतं दक्षस्य प्रजापतेराननं यस्य स तथाभूत । कामेश्वरावतार इति भावः ।
अभिनीतं अभिनयं कृतं भिक्षार्थ अटनं सञ्चारः येन स तथाभूत । धारितः धृतः
मेरुकानन मेरुस्थितोद्यानं तस्य कुसुममालिकालङ्कारः येन स तथाभूत । दारितो
विदारित: दारुकासंज्ञिकवने याः कुलपालिकाः कुलस्त्रिय: । पतिव्रता इति यावत् ।
तासामहङ्कारो येन स तथाभूत । सुन्दरेश्वरावतारेणेति भावः । समावर्जितानि
विषयेभ्य: प्रत्याहृतानि यानि भक्तमानसानि तेषामनुसारः अनुसरणं यस्य स
तथाभूत । परावर्तितः अभिनिवर्तितः हप्ततापसानां दारुकावनस्थतपोमदमत्त-
ऋषीणां अभिचार: आभिचारिकं येन स तथाभूत । इदं कूर्मपुराणप्रसिद्धम् ।