2023-08-22 09:56:15 by Bharadwajraki
This page has been fully proofread twice.
कान्तिप्रकर, मन्दस्मितलवशान्तत्रिपुर, नादबिन्दुकलाभिज्ञास्पदभूरिभद्र, स्वेदबिन्दुलवाविर्भावितवीरभद्र, त्रस्तरक्षापरतन्त्र, ध्वस्तदक्षाध्वरतन्त्र,
[commentary]
भ्योऽधिकः उत्तमः विश्वाधिकः तस्य भावः विश्वाधिकत्वं तदेव पदं लक्षणम् । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तस्यालम्ब आश्रयः तस्य सम्बुद्धिः । सर्वोत्तमलक्षणलक्षितत्वात्तस्येति भावः । तथा चोक्तं पराशरपुराणे 'अथातस्संप्रवक्ष्यामि देवताधिक्यमादरात् । यस्य स्मरणमात्रेण प्रसीदति महेश्वरः ॥ अचेतनेभ्यस्सर्वेभ्यश्चेतनाधिकता मुने । चेतनेषु मनुष्याश्च मनुष्येष्वधिका द्विजाः ॥ द्विजेषु ब्राह्मणास्तेषु कुलीना अधिकाः स्मृताः । तेभ्यो मनुष्यगन्धर्वा अधिका वेदवित्तम ॥ तेभ्योऽपि देवगन्धर्वाः पितरश्च ततः परम् । कर्मदेवसमाख्याश्च तथा देवास्ततः परम् ॥ तेभ्य इन्द्रोऽधिकस्तस्मादधिकस्तु बृहस्पतिः । बृहस्पतेरधिप्राज्ञः प्रजानाथोऽधिकस्ततः ॥ प्रजापतेरपि ब्रह्मा ब्रह्मणो विष्णुरास्तिकाः । विष्णोरपि हरस्तस्मान्मायी साक्षान्महेश्वरः ॥ ततोऽधिकतरस्साक्षाच्छिवस्साम्बस्सनातनः । तदन्यद्विश्वमीशानस्स तु विश्वाधिकश्शिवः ॥' इति । श्रुतिश्व -- 'विश्वाधिको रुद्रो महर्षिः' इति । अधिकं ग्रन्थविस्तरभयान्न लिख्यते । अश्वायिताः आद्यवचोगुम्भाः यस्य स तथाभूत । इदमपि त्रिपुरसंहारकाल इति भावः । कुन्दानां कुन्दकुसुमानाम् । 'कुन्दं माघ्ये च कुन्दो ना निधिभेदमुरद्विषोः' इति भास्करः । यः स्मयः गर्वः तस्य हरः अपहर्ता तस्य सम्बुद्धिः । धावळ्यातिशयादिति भावः । मन्दस्मितं मन्दहासः तस्य यो लेशः तेन शान्ताः त्रिपुरासुरा यस्य तथाभूत । हासमात्रेण त्रिपुरविनाशादिति भावः । नाद इति बिन्दुरिति कळेति अन्तःप्रणवस्यावयवविशेषा नादबिन्दुकलाः अभिजानन्तीति ते तथा तेषामास्पदप्राप्यस्थानभूत इत्यर्थः । अत्रायं विवेकः । ब्रह्मप्रणवो द्विविधः -- सृष्टिप्रणवः, संहारप्रणवश्चेति । ततो द्विविधः स एव ब्रह्मप्रणवः पुनः अन्तःप्रणवः बहिःप्रणवः उभयात्मकप्रणवश्चेति त्रिविधः । स चान्तः प्रणवोऽष्टविधः, अकारः उकारः मकारः अर्धमात्रा नादो बिन्दुः कला कलातीता चेति । सर्वमेतन्नारदपरिव्राजकोपनिषदि स्पष्टम् । द्वितीयाश्वासोपयोगितया कलाविभागोऽत्र लिख्यते । अकारः प्रथमा कला, उकारो द्वितीया कला, मकारस्तृतीया कला, अर्धमात्रा चतुर्थी, नादः पञ्चमी,
बिन्दुष्षष्ठी कला, सप्तमी कलातीता, अष्टमी कलाशान्तिः, नवमी शान्त्यतीता, दशमी उन्मनी कला, एकादशी मनोन्मनी, द्वादशी पुरी, त्रयोदशी मध्यमा, चतुर्दशी