2023-08-22 09:55:13 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तुरीयाश्वासः
  
  
  
   
  
  
  
  कान्तिप्रकर, मन्द स्मितलवशान्तत्रिपुर, नादबिन्दुकलाभिज्ञास्पदभूरिभद्र,
  
  
  
   स्वेदबिन्दुलवाविर्भावितवीरभद्र, त्रस्तरक्षापरतन्त्र, ध्वस्तदक्षाध्वरतन्त्र,
  
  
  
   
  
  
  
  ३१५
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  भ्योऽधिककः उत्तमः विश्वाधिकः तस्य भावः विश्वाधिकत्वं तदेव पदं लक्षणम् ।
  
  
  
   'पदं व्यवसितत्राणस्थानलक्ष्माभिङ्घ्रिवस्तुषु' इत्यमरः । तस्यालम्ब आश्रयः तस्य
  
  
  
   सम्बुद्धिः । सर्वोत्तमलक्षणलक्षितत्वात्तस्येति भावः । तथा चोक्तं पराशरपुराणे
  
  
  
   'अथातस्संप्रवक्ष्यामि देवताधिक्यमादरात् । यस्य स्मरणमात्रेण प्रसीदति महेश्वरः ॥
  
  
  
   अचेतनेभ्यस्सर्वेभ्यश्चेतनाधिकता मुने । चेतनेषु मनुष्याश्च मनुष्येष्वधिका
  
  
  
   द्विजाः ॥ द्विजेषु ब्राह्मणास्तेषु कुलीना अधिकाः स्मृताः । तेभ्यो मनुष्यगन्धर्वा
  
  
  
  अघि अधिका वेदवित्तम ॥ तेभ्योऽपि देवगन्धर्वाः पितरश्च ततः परम् । कर्मदेवसमा-
  
  
  
  ख्याश्च तथा देवास्ततः परम् ॥ तेभ्य इन्द्रोऽधिकस्तस्मादधिकस्तु बृहस्पतिः । बृहस्प-
  
  
  
  तेरधिप्राज्ञः प्रजानाथोऽधिकस्ततः ॥ प्रजापतेरपि ब्रह्मा ब्रह्मणो विष्णुरास्तिकाः ।
  
  
  
   विष्णोरपि हरस्तस्मान्मायी साक्षान्महेश्वरः ॥ ततोऽधिकतरस्साक्षांषाच्छिवस्साम्बस्स-
  
  
  
  नातनः। ` । तदन्यद्विश्वमीशानस्स तु विश्वाधिकश्शिवः ॥' इति । श्रुतिश्व -- 'विश्वा-
  
  
  
  घिधिको रुद्रो महर्षिः' इति । अधिकं ग्रन्थविस्तरभयान्न लिख्यते । अश्वायिताः
  
  
  
   आद्यवचोगुम्भाः यस्य स तथाभूत । इदमपि त्रिपुरसंहारकाल इति भावः । कुन्दानां
  
  
  
   कुन्द कुसुमानाम् । 'कुन्दं माध्घ्ये च कुन्दो ना निधिभेदमुरद्विषोः' इति भास्करः ।
  
  
  
   यः - स्मयः गर्वः तस्य हर:रः अपहर्ता तस्य सम्बुद्धिः । धावळ्यातिशयादिति भावः ।
  
  
  
   मन्दस्मिततं मन्दहास:सः तस्य यो लेशः तेन शान्ताः त्रिपुरासुरा यस्य तथा-
  
  
  
  भूत । हासमात्रेण त्रिपुरविनाशादिति भावः । नाद इति बिन्दुरिति कळेति
  
  
  
   अन्तःप्रणवस्यावयवविशेषा नादबिन्दुकला :लाः अभिजानन्तीति ते तथा तेषामास्पद
  
  
  
  प्राप्यस्थानभूत इत्यर्थः । अत्रायं विवेकः । ब्रह्मप्रणवो द्विविध:धः -- सृष्टिप्रणवः, संहार-
  
  
  
  प्रणवश्चेति । ततो द्विविधः स एव ब्रह्मप्रणवः पुनः अन्त: तःप्रणवः बहि: हिःप्रणवः
  
  
  
   उभयात्मकप्रणवश्चेति त्रिविःविधः । स चान्तः प्रणवोऽष्टविघ:धः, अकारः उकार:रः मकार:
  
  
  
  रः अर्धमात्रा नादो बिन्दुः कला कलातीता चेति । सर्वमेतन्नारदपरिव्राजकोपनिषदि
  
  
  
  स्पे स्पष्टम् । द्वितीयाश्वासोपयोगितया कलाविभागोऽत्र लिख्यते । अकारः प्रथमा कला,
  
  
  
   उकारो द्वितीया कला, मकारस्तृतीया कला, अर्धमात्रा चतुर्थी, नादः पञ्चमी,
  
  
  
  
  
  
  
  बिन्दुष्षष्ठी कला, सप्तमी कलांलातीता, अष्टमी कलाशान्तिः, नवमी शान्त्यतीता, दशमी
  
  
  
   उन्मनी कला, एकादशी मनोन्मनी, द्वादशी पुरी, त्रयोदशी मध्यमा, चतुर्दशी
  
  
  
   
  
  
  
  •
  
  
  
   
  
  
  
  73