This page has not been fully proofread.

तुरीयाश्वासः
 
कान्तिप्रकर, मन्द स्मितलवशान्तत्रिपुर, नादबिन्दुकलाभिज्ञास्पदभूरिभद्र,
स्वेदबिन्दुलवाविर्भावितवीरभद्र, त्रस्तरक्षापरतन्त्र, ध्वस्तदक्षाध्वरतन्त्र,
 
३१५
 
-
 
-
 
भ्योऽधिक उत्तमः विश्वाधिकः तस्य भावः विश्वाधिकत्वं तदेव पदं लक्षणम् ।
'पदं व्यवसितत्राणस्थानलक्ष्माभिवस्तुषु इत्यमरः । तस्यालम्ब आश्रयः तस्य
सम्बुद्धिः । सर्वोत्तमलक्षणलक्षितत्वात्तस्येति भावः । तथा चोक्तं पराशरपुराणे
'अथातस्संप्रवक्ष्यामि देवताधिक्यमादरात् । यस्य स्मरणमात्रेण प्रसीदति महेश्वरः ॥
अचेतनेभ्यस्सर्वेभ्यश्चेतनाधिकता मुने । चेतनेषु मनुष्याश्च मनुष्येष्वधिका
द्विजाः ॥ द्विजेषु ब्राह्मणास्तेषु कुलीना अधिकाः स्मृताः । तेभ्यो मनुष्यगन्धर्वा
अघिका वेदवित्तम ॥ तेभ्योऽपि देवगन्धर्वाः पितरश्च ततः परम् । कर्मदेवसमा-
ख्याश्च तथा देवास्ततः परम् ॥ तेभ्य इन्द्रोऽधिकस्तस्मादधिकस्तु बृहस्पतिः । बृहस्प-
तेरधिप्राज्ञः प्रजानाथोऽधिकस्ततः ॥ प्रजापतेरपि ब्रह्मा ब्रह्मणो विष्णुरास्तिकाः ।
विष्णोरपि हरस्तस्मान्मायी साक्षान्महेश्वरः ॥ ततोऽधिकतरस्साक्षांच्छिवस्साम्बस्स-
नातनः। `तदन्यद्विश्वमीशानस्स तु विश्वाधिकश्शिवः ॥' इति । श्रुतिश्व - 'विश्वा-
घिको रुद्रो महर्षिः' इति । अधिकं ग्रन्थविस्तरभयान्न लिख्यते । अश्वायिताः
आद्यवचोगुम्भाः यस्य स तथाभूत । इदमपि त्रिपुरसंहारकाल इति भावः । कुन्दानां
कुन्द कुसुमानाम् । 'कुन्दं माध्ये च कुन्दो ना निधिभेदमुरद्विषोः' इति भास्करः ।
यः - स्मयः गर्वः तस्य हर: अपहर्ता तस्य सम्बुद्धिः । धावळ्यातिशयादिति भावः ।
मन्दस्मित मन्दहास: तस्य यो लेशः तेन शान्ताः त्रिपुरासुरा यस्य तथा-
भूत । हासमात्रेण त्रिपुरविनाशादिति भावः । नाद इति बिन्दुरिति कळेति
अन्तःप्रणवस्यावयवविशेषा नादबिन्दुकला : अभिजानन्तीति ते तथा तेषामास्पद
प्राप्यस्थानभूत इत्यर्थः । अत्रायं विवेकः । ब्रह्मप्रणवो द्विविध:- सृष्टिप्रणवः, संहार-
प्रणवश्चेति । ततो द्विविधः स एव ब्रह्मप्रणवः पुनः अन्त: प्रणवः बहि: प्रणवः
उभयात्मकप्रणवश्चेति त्रिविः । स चान्तः प्रणवोऽष्टविघ:, अकारः उकार: मकार:
अर्धमात्रा नादो बिन्दुः कला कलातीता चेति । सर्वमेतन्नारदपरिव्राजकोपनिषदि
स्पेष्टम् । द्वितीयाश्वासोपयोगितया कलाविभागोऽत्र लिख्यते । अकारः प्रथमा कला,
उकारो द्वितीया कला, मकारस्तृतीया कला, अर्धमात्रा चतुर्थी, नादः पञ्चमी,
बिन्दुष्षष्ठी कला, सप्तमी कलांतीता, अष्टमी कलाशान्तिः, नवमी शान्त्यतीता, दशमी
उन्मनी कला, एकादशी मनोन्मनी, द्वादशी पुरी, त्रयोदशी मध्यमा, चतुर्दशी
 

 
73