2023-07-04 13:18:09 by Bharadwajraki
This page has been fully proofread twice.
नीलकण्ठविज
चौर्येण प्रणयेन चापहरतः पल्लीषु गव्यान्यपि
स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाधाशतैः ।
त्रैलोक्योद्भटकालकूटकबलीकारप्रकारं पुनः
स्तोतुं के प्रथमेऽपि नाम कवयो दूरेऽधिकारस्तु नः ॥ ९॥
[commentary]
यासां ताः यज्जन्यास्सत्यो भुवि जयन्ति सर्वोत्कर्षेण वर्तन्ते । तां गिरां देवतां वाचामधीश्वरीं वन्दे नमस्करोमि । वाचो देव्यास्सर्वविद्याप्रसूतित्वेन तदेकनमने कृते तज्जन्यविद्यानिमित्तपूजाभाजनभूतानां कवीनां नमनं कृतप्रायमेवेति भावः । मनुष्येषु मुहुर्मुहुरवतीर्णस्य मनुष्यलीलां कृतवतः हरेः चरितानि प्राचीनैः कविभिर्जयतया वर्णितानि, आधुनिकैः कविभिर्दुरूहतया न वर्ण्यन्ते यानि । तेषां शिवचरितानां वर्णने, अस्माकं स्वरूपयोग्यतैव नास्स्तीत्याह ॥ चौर्येणेति ॥ पल्लीषु आभीरग्रामेषु । चौर्येण चोरकर्मणा । प्रणयेन च स्नेहेन च । गव्यानि दुग्धानि । "गोपयसोर्यदि''ति पा.सू. ४.३.१६० यत्प्रत्ययः । "वान्तो यि प्रत्यये" पा. सू. ६.१.७९
इत्यवादेशः । अपहरतः अपहारिणः । श्रीहरेः कृष्णावतार इति शेषः । गाथाशतैः गाथानां ग्रन्थानां शतानि तैः । गाधृ प्रतिष्ठालिप्सयो[^१]र्ग्रन्थे च, अस्मात्पचादित्वादच्ततोऽदन्तलक्षणष्टाप् । कविकुलेनोद्गीतानि वर्णितानि चरितानि । स्त्यायन्ते ग्रथ्यन्ते ष्ट्यै सङ्घात[^२] इति धातोः कर्मणि यक् "भावकर्मणोरि पा.सू.१.३.१३" त्यात्मनेपदम् । अभिधीयन्ते ग्रन्थैर्वर्ण्यन्त इति यावत् । तथापि शिवस्येति शेषः । त्रैलोक्योद्भटकालकूटकबळीकारप्रकारं पुनः, त्रयश्च ते लोकाश्च[^३] त्रिलोकाः त एव त्रैलोक्यं । स्वार्थे ष्यञ् । तस्मिन्नुद्भटः दुस्सहः । यद्वा त्रैलोक्यस्य उद्भटः दुर्धरः यः कालकूटः
विषराजः तस्य कबळीकारः कबळीकरणं तस्मिन् प्रकारं चातुर्यं स्तोतुं पुनः के नाम कवयः के वा कवयः प्रथमे श्रेष्ठाः । न कोऽपीत्यर्थः । नस्तु अस्माकन्तु ।
[^१] भ्वादावादितश्चतुर्थो धातुरात्मनेपदी गाधृ -- गाथा इत्यपि बहुत्र पाठ: ।
"नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" -- पा. सू. ३.१.१३४ इति सूत्रेणेतिशेषः, "अजाद्यतष्टाप्"
पा.सू. १.४.४ इति सूत्रेण टाबितिविवेकः ॥
[^२] अजन्तेषु परस्मैपदिषु भौवादिकेषु दशमोऽयं धातुः । "सार्वधातुके यक्" ३.१.६७ पा. सू.) इत्यनेन यक् ॥
[^३] "दिक्पसङ्ख्ये संज्ञायाम्" -- इति नियमात् त्र्यवयवो लोकः ( लोकसमुदाय: )
त्रिलोकः, "त्रिलोकनाथः पितृसद्मगोचरः'' -- इत्यत्रेव, मध्यमपदलोपी समासो वरीयान् ॥