This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 

 
चौर्येण प्रणयेन चापहरतः पल्लीषु गव्यान्यपि

स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाधाशतैः ।

त्रैलोक्योद्भटकालकूटकबलीकारप्रकारं पुनः

स्तोतुं के प्रथमेऽपि नाम कवयो दूरेऽधिकारस्तु नः ॥ ९
 

 
[commentary]
 
यासां ताः यज्जन्यास्सत्यो भुवि जयन्ति सर्वोत्कर्षेण वर्तन्ते । तां गिरां देवतां
वाचामधीश्वरीं वन्दे नमस्करोमि । वाचो देव्यास्सर्वविद्याप्रसूतित्वेन तदेकनमने
कृते तज्जन्यविद्यानिमित्तपूजाभाजनभूतानां कवीनां नमनं कृतप्रायमेवेति भावः ।
मनुष्येषु मुहुर्मुहुरवतीर्णस्य मनुष्यलीलां कृतवतः हरेः चरितानि प्राचीनैः कविभिर्ज-
यतया वर्णितानि, आधुनिकैः कविदुिरुभिर्दुरूहतया न वर्ण्यन्ते यानि । तेषां शिवचरि-
तानां वर्णने, अस्माकं स्वरूप योग्यतैव नास्स्तीत्याह ॥ चौर्येणेति ॥ पल्लीषु आभी-
रग्रामेषु । चौर्येण चोरकर्मणा । प्रणयेन च स्नेहेन च । गव्यानि दुग्धानि । "गोप-
यसोर्यदि''ति पा.सू. 4 3-160४.३.१६० यत्प्रत्ययः । "वान्तो यि प्रत्यये" पा. सू. 6179
६.१.७९
इत्यवादेशः । अपहरत:तः अपहारिणः । श्रीहरेरेः कृष्णावतार इति शेषः । गाथाशतैः
गाथानां ग्रन्थानां शतानि तैः । ग।गाधृ प्रतिष्ठा सिलिप्सयो [‌‍‌‌‌‍^१]र्ग्रन्थे च, अस्मात्पचादित्वाद
च्ततोऽदन्तलक्षणष्टाप् । कविकुलोलेनोद्गीतानि वर्णितानि चरितानि । स्त्यायन्ते प्ग्रथ्यन्ते
ष्टथैट्यै सङ्घात[^२] इति धातोः कर्मणि यक् " भावकर्मणोरि पा.सू.1-3-13१.३.१३" त्यात्मनेप-
दम् । अभिधीयन्ते ग्रन्थैर्वर्ण्यन्त इति यावत् । तथापि शिवस्येति शेष:षः । त्रैलोक्यो-
द्भटकालकूटकबळी कारप्रकारं पुनः, त्रयश्च ते लोकाश्च[^३] त्रिलोकाः त एव त्रैलोक्यं ।
स्वार्थे ष्यञ् । तस्मिन्नुद्भट: दटः दुस्सहः । यद्वा त्रैलोक्यस्य उद्भट :टः दुर्धरः यः कालकूटः

विषराजः तस्य कबळीकार :रः कबळीकरणं तस्मिन् प्रकारं चातुर्यं स्तोतुं पुनः के
नाम कवयः के वा कवयः प्रथमे श्रेष्ठाः । न कोऽपीत्यर्थ:थः । नस्तु अस्माकन्तु ।
 
1.

 
[‌‍‌‌‌‍^१]
भ्वादावादितश्चतुर्थो धातुरात्मनेपदी गाधृ -- गाथा इत्यपि बहुत्र पाठ: ।

" नन्दिग्रहिपचादिभ्यो ल्युणिन्यथः चः" -- पा. सू. 3-1-134३.१.१३४ इति सूत्रेणेतिशेप:षः, "अजाद्यतष्टः पूटाप्"

पा.सू. 1-4-4१.४.४ इति सूत्रेण टाबितिविवेकः ॥
2.

[‌‍‌‌‌‍^२]
अजन्तेषु परस्मैपदिषु भौत्रावादिकेषु दशमोऽयं धानुःतुः । "सार्वधातु केयक यक्"
3-1-67
३.१.६७ पा. सू.) इत्यनेन यक् ॥
 
3.

[‌‍‌‌‌‍^३]
"दिक्पंपसङ्ख्ये संज्ञायाम्" -- इति नियमात् त्र्यवयवो लोकः ( लोकसमुदाय: )

त्रिलोकः, "त्रिलोकनाथः पितृसद्मगोचरः '' -- इत्यत्रेत्र, मध्यमपदलोपी समासो वरीयान् ॥