This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
चौर्येण प्रणयेन चापहरतः पल्लीषु गव्यान्यपि
स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाधाशतैः ।
त्रैलोक्योद्भटकालकूटकबलीकारप्रकारं पुनः
स्तोतुं के प्रथमेऽपि नाम कवयो दूरेऽधिकारस्तु नः ॥ ९ ॥
 
यासां ताः यज्जन्यास्सत्यो भुवि जयन्ति सर्वोत्कर्षेण वर्तन्ते । तां गिरां देवतां
वाचामधीश्वरीं वन्दे नमस्करोमि । वाचो देव्यास्सर्वविद्याप्रसूतित्वेन तदेकनमने
कृते तज्जन्यविद्यानिमित्तपूजाभाजनभूतानां कवीनां नमनं कृतप्रायमेवेति भावः ।
मनुष्येषु मुहुर्मुहुरवतीर्णस्य मनुष्यलीलां कृतवतः हरेः चरितानि प्राचीनैः कविभिर्ज-
यतया वर्णितानि, आधुनिकैः कविदुिरुहतया न वर्णन्ते यानि । तेषां शिवचरि-
तानां वर्णने, अस्माकं स्वरूप योग्यतैव नास्स्तीत्याह ॥ चौर्येणेति ॥ पल्लीषु आभी-
रग्रामेषु । चौर्येण चोरकर्मणा । प्रणयेन च स्नेहेन च । गव्यानि दुग्धानि । "गोप-
यसोर्यदि''ति पा.सू. 4 3-160 यत्प्रत्ययः । "वान्तो यि प्रत्यये पा. सू. 6179
इत्यवादेशः । अपहरत: अपहारिणः । श्रीहरे कृष्णावतार इति शेषः । गाथाशतैः
गाथानां ग्रन्थानां शतानि तैः । ग।धृ प्रतिष्ठा सिप्सयो ग्रन्थेच, अस्मात्पचादित्वादच
ततोऽदन्तलक्षणष्टाप् । कविकुलोनोद्गीतानि वर्णितानि चरितानि । स्त्यायन्ते प्रथ्यन्ते
ष्टथैसङ्घात इति धातोः कर्मणि यक् " भावकर्मणोरि पा.सू.1-3-13" त्यात्मनेप-
दम् । अभिधीयन्ते ग्रन्थैर्वर्ण्यन्त इति यावत् । तथापि शिवस्येति शेष: । त्रैलोक्यो-
द्भटकालकूटकबळी कारप्रकारं पुनः, त्रयश्च ते लोकाश्च त्रिलोकाः त एव त्रैलोक्यं ।
स्वार्थे ष्यञ् । तस्मिन्नुद्भट: दस्सहः । यद्वा त्रैलोक्यस्य उद्भट : दुर्धरः यः कालकूटः
विषराजः तस्य कबळीकार : कबळीकरणं तस्मिन् प्रकारं चातुर्यं स्तोतुं पुनः के
नाम कवयः के वा कवयः प्रथमे श्रेष्ठाः । न कोऽपीत्यर्थ: । नस्तु अस्माकन्तु ।
 
1. भ्वादावादितश्चतुर्थो धातुरात्मनेपदी गाध - गाथा इत्यपि बहुत्र पाठ: ।
" नन्दिग्रहिपचादिभ्योल्युणिन्यथः " – पा. सू. 3-1-134 इति सूत्रेणेतिशेप:, अजाद्यतष्टः पू"
पा.सू. 1-4-4 इति सूत्रेण टाबितिविवेकः ॥
2. अजन्तेषु परस्मैपदिषु भौत्रादिकेषु दशमोऽयंधानुः । "सार्वधातु केयक "
3-1-67 पा. सू.) इत्यनेन यक् ॥
 
3. "दिक्पंख्येसंज्ञायाम्" – इति नियमात् त्र्यवयवो लोकः ( लोकसमुदाय: )
त्रिलोकः, "त्रिलोकनाथः पितृसद्मगोचरः '' - इत्यत्रेत्र, मध्यमपदलोपी समासो वरीयान् ॥