This page has been fully proofread twice.

स्यन्दनायितभूमण्डल अक्रीतदासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आदृतपुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड, खर्वीकृतासुरमदानुपूर्वीविकास दर्वीकरेश्वरगृहीतमौर्वीविलास, वीणामुनीन्द्रख्यापितगरिमपौरुषबाणाधिकारस्थापितपरमपूरुष, अनिलाशनविहितनैपथ्य, कमलासनविहितसारथ्यं विश्वाधिकत्वपदालम्ब, अश्वायिताद्यवचोगुम्भ, कुन्दस्मयहर-
 
[commentary]
 
सरः यस्य तथाभूतेति पूर्ववत् । गङ्गायास्तरङ्गाः तैः भावितः अध्युषितः जटाप्रदेशः सटादेशो यस्य स तथाभूत | वन्दनं नमनं तस्मिन् अभिरत आसक्तः आखण्डल इन्द्रो यस्य तथाभूतेति पूर्ववत् । स्यन्दनायितं रथवदाचरितं महीमण्डलं यस्य स तथाभूत । तथा चोक्तं वेदपादस्तवे -- 'रथो भूः' इति । अक्रीताः वेतनादिभिः असम्भृताः दासाः कर्मकरा ये तापसा व्यासादयः तेषां कदम्बस्समूहः सोऽस्यास्तीति 'अर्शआदिभ्योऽच्' (५.२.१२७) इति अच्प्रत्ययः । तस्य सम्बुद्धिः । तथा चोक्तं 'व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहा' इति । चक्रीकृतौ रथाङ्गीकृतौ अर्कशीतकरयोर्बिम्बौ मण्डलौ यस्य स तथाभूत । तदुक्तं -- जैमिनिस्तवे 'रथाङ्गे चन्द्रार्कौ ब्रह्मा भवति सारथिः' इति । आदृतः पुराणवेतण्डः गजश्रेष्ठः गणपतिरिति यावत् । येन स तथाभूत । पुत्रत्वात्तस्येति भावः । स्वीकृतः विधृतः मेरुरेव कोदण्डः धनुर्येन स तथाभूत । तथाचोक्तं 'श्रीकण्ठो मेरुकोदण्डश्चण्डपापहरो हरः' इति । खर्वीकृतः ह्रस्वीकृतः असुराणां शूरपद्मतारकप्रभृतिदानवानां सम्बन्धिनी या मदानुपूर्वी मदसन्ततिः तस्याः विकासो येन स तथाभूत । दर्वीकरेश्वरेण वासुकिना, गृहीतः, अङ्गीकृतः, मौर्व्याः शिञ्जिन्याः विलासः यस्य स तथाभूत । तदुक्तं तत्रैव स्तोत्रे -- 'रथो भूर्ज्या फणी शौरिः शरश्चापो गिरिर्हयः । त्रयी रथाङ्गे चन्द्रार्कौ ब्रह्मा भवति सारथिः' इति । वीणापाणिश्चासौ मुनीन्द्रश्चेति शाकपार्थिवादित्वात्समासः । नारदस्तुम्बुरुरिति वा तेन ख्यापिते गरिमं गौरवं च पौरुषं वीर्यं चेत्येते यस्य स तथाभूत । बाणस्य अधिकारः कृत्यं तस्मिन् स्थापितः परमपुरुषः श्रीहरिः येन स तथाभूत । अनिलाशनाः, सर्पाः तैः विहितं नैपथ्यं प्रसाधनं यस्य स तथाभूत । 'आकल्पवेषो नैपथ्यं
प्रतिकर्म प्रसाधनम्' इत्यमरः । कमलासनो ब्रह्मा, तेन विहितं अनुष्ठितं, सारथ्यं सारथिकृत्यं यस्य स तथाभूत । त्रिपुरसंहारकाल इति भावः । विश्वेभ्यस्सर्वे-