2023-08-22 07:23:04 by Bharadwajraki
This page has not been fully proofread.
बौ
-
.
%₂
[commentary]
सरः यस्य तथाभूतेति पूर्ववत् । गङ्गायास्तरङ्गाः तैः भावितः अध्युषितः जटाप्रदेशः
सटादेशो यस्य स तथाभूत वन्दनं नमनं तस्मिन् अभिरत आसक्तः
आखण्डल इन्द्रो यस्य तथाभूतेति पूर्ववत् । स्यन्दनायितं रथवदाचरितं
महीमण्ड्लं यस्य स तथाभूत । तथा चोक्तं वेदपादस्तवे – 'रथो भूः' इति ।
अक्रीता: वेतनादिभिः असम्भृताः दासाः कर्मकरा ये तापसा व्यासादयः तेषां
कदम्बस्समूहः सोऽस्यास्तीति 'अर्शआदिभ्योऽच्' (5-2-127 ) इति अच्प्रत्ययः ।
तस्य सम्बुद्धिः । तथा चोक्तं 'व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहा'
इति । चक्रीकृतौ रथाङ्गकृतौ अर्कशीतकरयोर्बिम्बौ मण्डलौ यस्य स तथाभूत ।
तदुक्त - जैमिनिस्तवे 'रथाङ्गे चन्द्रा ब्रह्मा भवति सारथिः' इति ।
आदृतः पुराणवे तण्ड: गजश्रेष्ठ: गणपतिरिति यावत् । येन स तथाभूत।
पुत्रत्वात्तस्येति भावः । स्वीकृतः विधृतः मेरुरेव कोदण्ड: धनुर्येन स
तथाभूत । तथाचोक्तं 'श्रीकण्ठो मेरुकोदण्डश्चण्डपापहरो हरः' इति ।
खर्वीकृतः इस्वीकृतः असुराणां शूरपद्मतारकप्रभृतिदानवानां सम्बन्धिनी या
मदानुपूर्वी मदसन्ततिः तस्याः विकासो येन स तथाभूत । दर्वीकरेश्वरेण
बासुकिना, गृहीत: अङ्गीकृतः, मौर्व्याः शिञ्जिन्याः विलासः यस्य स तथाभूत ।
तदुक्तं तत्रैव स्तोत्रे – 'रथो भूर्ज्या फणी शौरिः शरश्चापो गिरिर्हयः ।
त्रयी रथाङ्गे चन्द्रा ब्रह्मा भवति सारंथि: ' इति । वीणापाणिश्चासौ मुनी-
न्द्रश्चेति शाकपार्थिवादित्वात्समासः । नारदस्तुम्बुरुरिति वा तेन ख्यापिते
गरिम गौरवं च पौरुषं वीर्य चेत्येते यस्य स तथाभूत ।
बाणस्य अघि-
कारः कृत्यं तस्मिन् स्थापित: परमपुरुष: श्रीहरि : येन स तथाभूत । अनिलाश-
नाः, सर्पाः तैः विहित नैपथ्य प्रसाधनं यस्य स तथाभूत । 'आकल्पवेषो नैपथ्यं
प्रतिकर्म प्रसाधनम् इत्यमरः । कमलासैनो ब्रह्मा, तेन विहितं अनुष्ठित, सारथ्य
सारथिकृत्यं यस्य स तथाभूत । त्रिपुरसंहारकाल इति भावः । विश्वेभ्यस्सर्वे-
-
*
Y
A