This page has been fully proofread twice.

शैलादिकृतनिषेवण कैलासशिखरभूषण तत्त्वार्थगोचर चन्द्रार्धशेखर शापायुधकुलार्थ्य[‍^१]सस्मितापाङ्ग कोपारुणकटाक्षभस्मितानङ्ग, ऊरीकृतविभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग, अङ्गानुषङ्गपावितनरास्थिलेश[^२] गङ्गातरङ्गभावितजटाप्रदेश वन्दनाभिरताखण्डल
 
[commentary]
 
लिडपवादोऽत्र लट्प्रत्ययः । तदादीत्यस्य अध्याहारः अद्येदानीम्, अहं विष्णुः जगतां लोकानां परिपालकः अस्मि संवृत्तः । अद्य एष आत्मभूः ब्रह्मा धाता निर्माता इमे एते इन्द्रादयः अद्य हरिदीश्वराः दिक्पतयः दानवाः बलिप्रभृतयः असुरा अद्य इदानीं भुजबलैः बाहुबलैः, उद्भटाः गता इत्यर्थः । मुनिवराः व्यासादयः अद्य चिरजीविनः । अथैकेन गद्येन सर्वविरचितस्तुतिप्रकारं बहुभिस्संबोधनान्तैः प्रदर्शयति ॥ शैलादीति ॥ शिलमुञ्छमत्तीति शिलादः । 'शिलमुञ्छः शिला ग्राव' इति भास्करः । तस्यापत्यं शैलादिः । 'अत इञ्' (४.१.९५) इति इञ्प्रत्ययः । तेन कृतमनुष्ठितं निषेवणं सेवा यस्य स तस्य संम्बुद्धिः । कैलासस्य पर्वतविशेषस्य यच्छिखरं शृङ्गं तस्य भूषण अलङ्कारभूत । तत्त्वं परमात्मा अर्थः अभिधेयं येषां तान्युपनिषद्वाक्यानि तेषां गोचर विषयेत्यर्थः । वेदान्तवेद्यत्वादिति भावः । 'तत्त्वं विलम्बमानेऽर्थे स्वरूपे परमात्मनि' इति नानार्थमाला । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेः । चन्द्रार्धं शेखरमापीडं यस्य तस्य सम्बुद्धिः । शापः आयुधं येषां ते शापायुधा ऋषयः तेषां यत्कुलं यूथं तेन अर्थ्यौ सम्प्रार्थौ स्मितापाङ्गौ यस्य स तथाभूतः । त्रिपुरसंहारार्थं हासस्य, कामविनाशार्थं अपाङ्गस्य च प्रार्थनादिति भावः । कोपेन क्रोधेन, अरुणौ रक्तौ, यौ कटाक्षौ ताभ्यां भस्मितः विनाशितः, अनङ्गः कामो यस्य स तथाभूतेति सम्बोधनान्तः ।
विभूतिः भस्मैव दिव्यः श्लाघ्योऽङ्गरागः गात्रविलेपनं ऊरीकृतः अङ्गीकृतः भस्मदिव्याङ्गरागो येन स तथाभूतेति पूर्ववत्सम्बोधनम् । तथाचोक्तं स्कान्दे -- 'भस्मोद्धूळितसर्वाङ्गम्' इति । गौरी गिरिजा देवी तथा परिगृहीतः स्वीकृतः सव्याङ्गभोग वामशरीरार्धं यस्य स तथाभूतेति पूर्ववत् । 'वामं शरीरे सव्यं स्यात्' इत्यमरः । तथा चोक्तम् 'उमालङ्कृतवामाङ्गः किङ्किणीकृतवासुकिः' इति ।
अङ्गानुषङ्गोऽवयवसम्बन्धस्तेन पाविता पवित्रीकृता नरास्थिमयी माला
 
[^१] स्मितेन त्रिपुरः, अपाङ्गेन कामः, पादेन कालश्च हत इति प्रसिद्धिः ।
 
[^२] ...अस्थिमाल, इति व्याख्यापाठः ।