This page has not been fully proofread.

तुरीयाभ्वासः
 
३१३
 
"
 
शैलादिकृतनिषेवण कैलासशिखरभूषण तत्त्वार्थगोचर चन्द्रार्ध-
शेखर शापायुधकुलार्थ्य' सस्मितापाङ्ग कोपारुणकटाक्षभस्मितानङ्ग,
ऊरीकृतविभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग, अङ्गानुषङ्ग-
पावितनरास्थिलेश गङ्गातरङ्गभावितजटा प्रदेश वन्दनाभिरताखण्डल
लिडपवादोऽत्र लट्प्रत्ययः । तदादीत्यस्य अध्याहारः अद्येदानीम्, अहं विष्णुः
जगतां लोकानां परिपालक अस्मि संवृत्तः । अद्य एष आत्मभूः ब्रह्मा
धाता निर्माता इमे एते इन्द्रादयः अद्य हरिदीश्वराः दिक्पतय: दानवाः
बलिप्रभृतयः असुरा अद्य इदानीं भुजबलै: बाहुबलैः उद्भटाः गता इत्यर्थः ।
मुनिवरा: व्यासादयः अद्य चिरजीविनः । अथैकेन गद्येन सर्वविरचितस्तुति -
प्रकारें बहुभिस्संबोधनान्तैः प्रदर्शयति ॥ शैलादीति ॥ शिलमुञ्छमत्तीति
शिलादः । 'शिलमुञ्छ: शिला प्राव' इति भास्करः । तस्यापत्यं शैलादिः ।
'अत इञ' ( 4-1-95) इति इञ्प्रत्ययः । तेन कृतमनुष्ठित निषेवणं सेवा यस्य स
तस्य संम्बुद्धि: । कैलासस्य पर्वतविशेषस्य यच्छिखरं शृङ्गं तस्य भूषण
अलङ्कारभूत । तत्त्वं परमात्मा अर्थ: अभिधेयं येषां तान्युपनिषद्वाक्यानि
तेषां गोचर विषयेत्यर्थः । वेदान्तवेद्यत्वादिति भावः । 'तत्त्वं विलम्बमानेऽर्थे
स्वरूपे परमात्मनि' इति नानार्थमाला । 'तं त्वौपनिषदं पुरुषं पृच्छामि'
इति श्रुतेः । चन्द्रा शेखरमापीडं यस्य तस्य सम्बुद्धिः । शाप: आयुधं
येषां ते शापायुधा ऋषयः तेषां यत्कुलं यूथं तेन अर्थ्यो सम्प्राय स्मितापाङ्गौ
यस्य स तथाभूत । त्रिपुरसंहारार्थं हासस्य, कामविनाशार्थं अपाङ्गस्य च
प्रार्थनादिति भावः । कोपेन क्रोधेन, अरुणौ रक्तौ, यौ कटाक्षौ ताभ्यां
भस्मितः विनाशितः, अनङ्गः कामो यस्य स तथाभूतेति सम्बोधनान्तः ।
विभूतिः भस्मैव दिव्यः श्लाघ्योऽङ्गराग: गात्रविलेपनं ऊरीकृतः अङ्गीकृतः
भस्मदिव्याङ्गरागो येन स तथाभूतेति पूर्ववत्सम्बोधनम् । तथाचोक्तं स्कान्दे-
'भस्मोद्धूळित सर्वाङ्गम्' इति । गौरी गिरिजा देवी तथा परिगृहीतः स्वीकृतः
सव्याङ्गभोग वामशरीरार्धं यस्य स तथाभूतेति पूर्ववत् । 'वाम शरीरे सव्यं
स्यात् इत्यमरः । तथा चोक्तम् 'उमालङ्कृतवामाङ्गः किङ्किणीकृतवासुकि: "
अङ्गानुषङ्गोऽवयवसम्बन्धस्तेन पाविता पवित्रीकृता नरास्थिमयी माला
10 स्मितेन त्रिपुरः, अपाङ्गेन कामः पादेन कालश्च हत इति प्रसिद्धिः ।
2. ... अस्थिमाल, इति व्याख्या पाठः ।
 
इति ।
 
N - 40