This page has been fully proofread twice.

पाषाणान् सितनीलपीतहरितान् वैडूर्यवज्रादिकान्
कण्ठे वक्षसि मूर्ध्नि वा निदधतां का नाम तेन स्तुतिः ।
एतद्भूषणमेतदेव जगतां दुस्साधमुज्जीवनं
कण्ठे यद्भगवन्नियच्छसि सुखं काकोलमुच्छृङ्खलम् ॥ ३७ ॥
 
अद्याहं परिपालकोऽस्मि जगतामद्यैव धातात्मभूः
अद्येमे हरिदीश्वरा भुजबलैरद्योद्भटा दानवाः ।
अद्यैते चिरजीविनो मुनिवरास्तन्त्रैश्च मन्त्रैरपि
स्वामिन्नाकलयामहे तव यदा कण्ठं घनश्यामलम् ॥ ३८ ॥
 
[commentary]
 
विषेण कालकूटेन, भग्नाः भङ्गं प्राप्ताः, वयम् । अद्येति शेषः । दिष्ट्या आनन्देन स्मः वर्तामहे । त्वया पीतं गळितं इदं गरळं दिष्ट्या आनन्देन वर्तते दिव्यस्थानलाभादिति भावः । त्वां भवन्तं नीलः कण्ठो यस्य स तथाभूतं गृणती अभिदधाना श्रुतिः -- 'नमो नीलग्रीवाय च शितिकण्ठाय च' इति । 'त्रिलोचनं नीलकण्ठं प्रशान्तम्' इत्यादिवेदविभागः साधिता अमृषाभूतार्था सती, दिष्ट्या आनन्देन वर्तते । 'दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा' इत्यमरः । तथाचोक्तं देवीभागवते -- 'ग्रीवां जग्राह जननी लोकानां हितमिच्छती । नीला ग्रीवा तदा जाता नीलग्रीवस्ततोऽभवत्' इति ॥ पाषाणानिति ॥ वैडूर्यमणिः वज्रमणिश्चेत्येतौ आदी येषां ते तथा सितनीलपीतहरितान् श्वैत्यादिरूपतयेति भावः । मूर्ध्नि
शिरोमणितयेति भावः । निदधतां दधानानां तेन का नाम स्तुतिः का वा स्तुतिरित्यर्थः । हे भगवन् साम्बमूर्ते उच्छृङ्खलं दुर्निरोधं काकोलं विषम् । 'पुंसि क्लीबे च काकोलकालकूटहलाहलाः' इत्यमरः । कण्ठे गळे, नियच्छसि निगृह्णासीति यत् धरसीति यावत् । एतत् कण्ठविषधारणं जगतां
बाह्यान्तरलोकानामुज्जीवनं प्राणधारणं एतदेव इतरैरित्यादि । दुस्साधं सम्पादयितुमशक्यं भूषणमिति जानीम इति भावः ॥ अद्येति ॥ हे स्वामिन् अप्रच्युतैश्वर्यशालिन् परमेश्वर । 'स्वामिन्नैश्वर्ये' (५.२.१२६) इति निपातनात् साधुः । तव कण्ठं यदा घनो मेघः, तद्वच्छ्यामलं नीलम् । 'कालश्यामलमेचकाः' इत्यमरः । आकलयामहे ददृशिम । 'वर्तमानसामीप्ये वर्तमानवद्वा' (३.३.१३१) इति