2023-06-05 16:40:38 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
पाषाणान् सितनीलपीतहरितान् वैडूर्यवज्रादिकान्
कण्ठे वक्षसि मूर्ध्नि वा निद्धतां का नाम तेन स्तुतिः ।
एतदूषणमेतदेव जगतां दुस्साध मुज्जीवनं
* कण्ठे यद्भगवन्नियच्छसि सुखं काकोलमुच्छृङ्खलम् ॥३७॥
अद्याहं परिपालकोऽस्मि जगतामद्यैव धातात्मभूः
अद्येमे हरिदीश्वरा भुजबलैरद्योद्घटा दानवाः ।
अद्वैते चिरजीविनो मुनिवरास्तन्त्रैश्च मन्त्रैरपि
स्वामिन्नाकलयामहे तव यदा कण्ठं घनश्यामलम् ॥३८॥
E
"
-
T
विषेण कालकूटेन, भग्नाः भङ्गं प्राप्ताः, वयम् । अद्येति शेष: । दिष्ट्या आनन्देन
स्मः वर्तामहे । त्वया पीतं गळितं इदं गरळं दिष्टया आनन्देन वर्तते दिव्यस्थान-
लाभादिति भावः । त्वां भवन्तं नीलः कण्ठो यस्य स तथाभूतं गृणती अभिदधाना
श्रुतिः - 'नमो नीलग्रीवाय च शितिकण्ठाय च' इति । 'त्रिलोचनं नीलकण्ठं
प्रशान्तम्' इत्यादिवेद विभाग: साधिता अमृषाभूतार्था सती दिष्टचा आनन्देन
वर्तते । 'दिष्ट्या समुपजोषं चैत्यानन्देऽथान्तरेऽन्तरा' इत्यमरः । तथाचोक्तं
देवीभागवते – 'ग्रीवां जग्राह जननी लोकानां हितमिच्छती । नीला ग्रीवा तदा
जाता नीलग्रीवस्ततोऽभवत्' इति ॥ पाषाणा निति ॥ वैडूर्यमणिः वज्रमणिश्चेत्ये-
तो आदी येषां ते तथा सितनीलपीत हरितान् श्वैत्यादिरूपतयेति भावः । मूर्ध्नि
शिरोमणितयेति भावः । निदघतां दधानानां तेन का नाम स्तुतिः का वा
अतुतिरित्यर्थ: । हे भगवन् साम्बमूर्ते उच्छृङ्खलं दुर्निरोधं काकोलं विषम् ।
+ पुंसि क्लीबे च काकोलकालकूटहलाहलाः' इत्यमरः । कण्ठे गळे,
: नियच्छसि निगृह्णासीति यत् घरसीति यावत् । एतत् कण्ठविषधारणं जगतां
बाह्यान्तरलोकानामुज्जीवनं प्राणधारणं एतदेव इतरैरित्यादि । दुस्साधं
सम्पादयितुमशक्यं भूषणमिति जानीम इति भावः ॥ अद्येति ॥ हे स्वामिन्
अप्रच्युतैश्वर्यशालिन् परमेश्वर । 'स्वामिन्नैश्वर्ये' (5-2-126) इति निपातनात् साधुः ।
वक यदा घनो मेघ:, तद्वच्छ्यामलं नीलम् । 'कालश्यामलमेचका: '
इत्यमरः । आकलयामहे ददृशिम । 'वर्तमानसामीप्ये वर्तमानवद्वा' (3-3-131) इति
.