2023-08-22 06:51:50 by Bharadwajraki
This page has been fully proofread twice.
सुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्बन्त्या परामृश्यमानकन्धरापदम्, आनन्दतुन्दिलतया किमप्यज्ञातकरणीयैरालिङ्गद्भिरितरेतरम्, अन्योन्यमास्फोटयद्भिः अपहसद्भिरन्योन्यममरगणैरसकृदुपसंगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरम्, आनन्दनिर्भरा गोविन्दविधिपुरन्दरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सनकादयः, यथामति स्तोतुमारेभिरे ।
[^१]दिष्ट्या विषेण भग्नाः स्मो दिष्ट्या पीतमिदं त्वया ।
दिष्ट्या च नीलकण्ठं त्वां गृणती साधिता श्रुतिः ॥ ३६॥
[commentary]
अनायासेन अश्रमेण, ईषत्प्रयत्नेनेति वाऽर्थः । कबळीकृतः ग्रासीकृतः कालकूटो येन स तथाभूतं आविष्कृतं प्रकटितं यन्मन्दस्मितं तेन सुन्दरं दर्शनीयं किञ्च, आश्वस्तया समाश्वासं कुर्वन्त्या आश्लिष्य आंलिङ्ग्य चुम्बन्त्या चुम्बनं कुर्वन्त्या भवान्या उमादेव्या मुहुर्मुहुः असकृत् परामृश्यमानं संस्पृश्यमानं कन्धरायाः कण्ठस्य । 'कण्ठो गळोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि' इत्यमरः । पदं स्थानं यस्य स तथाभूतम् । आनन्देन तुन्दिलाः पिचण्डिलाः । 'तुन्दिलस्तुन्दिमस्तुन्दी बृहत्कुक्षिः पिचण्डिलः' इत्यमरः । तेषां भावस्तत्ता तया किमपि अज्ञातकरणीयैः अविदितकार्यैः इतरेतरमन्योन्यमालिङ्गद्भिः आश्लिष्यद्भिः अन्योन्यम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति द्विर्भावः । 'असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः' इति सुपः सुरादेशः । आस्फोटयद्भिः अङ्गुळिस्फोटं कुर्वद्भिः । अन्योन्यमपहसद्भिः अमराश्च गणाश्चेति द्वन्द्वः तैः देवैः प्रमथैश्चेत्यर्थः । उपसङ्गृह्यमाणे निपीडयमाने चरणारविन्दे यस्य स तथाभूतं भगवन्तं चन्द्रशेखरम् आलक्ष्य दृष्ट्वा आनन्देन निर्भराः भरिताः गोविन्दो हरिः, ब्रह्मा, पुरन्दर इन्द्रः, एते आदयो येषां ते तथाभूताः देवासुराः बलिविरोचनादयः दानवा असुराः सनकादयः सनकप्रभृतयः ब्रह्मर्षयः महर्षयश्च यथामति स्वस्य मतिमनतिक्रम्येत्यर्थः । स्तोतुं स्तुतिं कर्तुं आरेभिरे उपचक्रमिर इत्यर्थः ॥ दिष्ट्येति ॥
[^१] दिष्ट्या स्मः, दिष्ट्या (पीतमिदं) वर्तते -- इत्यन्वयं कृत्वा दिष्ट्या आनन्देन वर्तामहे वयम्, गरलमपि दिव्यस्थानलाभादानन्देन वर्तते इत्यपूर्वं रसिकरञ्जनीयमर्थमाह व्याख्याता ॥ श्रुतेरपि सत्यार्थतया आनन्दः ॥