This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
सुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्न्त्या परामृश्यमान-
कन्धरापदम्, आनन्दतुन्दिलतया किमप्यज्ञातकरणीयैरालिङ्गद्भिरि-
तरेतरम्, अन्योन्यमास्फोटयद्भिः अपहसद्भिरन्योन्यममरगणैरसकृदुप-
संगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरम्, आनन्दनिर्भरा गोविन्द -
विधिपुरन्दरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सन-
कादयः, यथामति स्तोतुमारेभिरे ।
 
'

 
[^१]
दिष्ट्या विषेण भग्नाः स्मो दिष्ट्या पीतमिदं त्वया ।

दिष्ट्या च नीलकण्ठं त्वां गृणती साधिता श्रुतिः ॥ ३६॥
 
"
 

 

 
[commentary]
 
अनायासेन अश्रमेण, ईषत्प्रयत्नेनेति वाऽर्थः । कबळीकृत:तः ग्रासीकृतः
कालकूटो येन स तथाभूतं आविष्कृतं प्रकटितं यन्मन्दस्मितं तेन सुन्दरं दर्शनीयं
किञ्च, आश्वस्तया समाश्वासं कुर्वन्त्या आश्विलिष्य आंलिङ्ग्य चुम्बन्त्या चुम्बनं
कुर्वन्त्या भवान्या उमादेव्या मुहुर्मुहुः असकृत् परामृश्यमानं संस्पृश्यमानं
कन्धरायाः कण्ठस्यं। 'कण्ठो गळोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि
' इत्यमरः पदं स्थानं यस्य स तथाभूतम् । आनन्देन तुन्दिला:
लाः पिचण्डिला: 1.लाः । 'तुन्दिलस्तुन्दिमस्तुन्दी बृहत्कुक्षि:षिः पिचण्डिल: लः' इत्यमरः ।
तेषां भावस्तत्ता तया किमपि अज्ञातकरणीयैः अविदितकार्यै:यैः इतरेतरमन्योन्यमा-
लिङ्गद्भिः आश्विलिष्यद्भिः अन्योन्यम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये '
"
इति द्विर्भावः । 'असमासवद्भावे पूर्वपदस्थस्य सुप:पः सुर्वक्तव्यः' इति सुपः
सुरादेशः : आस्फोटयद्भिः अङ्गुळिस्फोटं कुर्वद्भिः । अन्योन्यमपहसद्भिः
अमराश्च गणाश्चेति द्वन्द्वः तैतैः देवैः प्रमयैथैश्चेत्यर्थः । उपसङ्गृह्यमाणे
'
निपीडयमाने चरणारविन्दे यस्य स तथाभूतं भगवन्तं चन्द्रशेखरम् आलक्ष्य
दृष्टाट्वा आनन्देन निर्भरी:राः भरिताः गोविन्दो हरिः, ब्रह्मा, पुरन्दर इन्द्रः, एते
आदयो येषां ते "तथाभूताः देवासुराः बलिविरोचनादयः दानवा असुराः
सनकादयः सनकप्रभृतयः ब्रह्मर्षयः महर्षयश्च यथामति स्वस्य मतिमनति-
क्रम्येत्यर्थः । स्तोतुं स्तुतितिं कर्तुं आरेभिरे उपचक्रमिर इत्यर्थः ॥ दिष्ट्येति ॥
 

 
[^१]
दिष्ट्या स्मः, दिष्ट्या (पीतमिदं ) वर्तते -- इत्यन्वयं कृत्वा दिष्ट्या आनन्देन
वर्तमि
वर्तामहे वयम्, गरलमपि दिव्यस्थानलाभादानन्देन वर्तते इत्यपूर्वं रसिकरञ्जनीयमर्थ-
मोहे पर्
माह व्याख्याता ॥ श्रुतेरपि सत्यार्थतया आनन्दः ॥