This page has not been fully proofread.

तुरीयाश्वासः
 
सुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्वन्त्या परामृश्यमान-
कन्धसपदम् आनन्दतुन्दिलतया किमप्यज्ञातकरणीयैरालिङ्गद्भिरि-
तरेतरम्, अन्योन्यमास्फोटयद्भिः अपहसद्भिरन्योन्यममरगणैरसकृदुप-
संगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरम् आनन्दनिर्भरा गोविन्द -
विधिपुरन्दरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सन-
कादयः, यथामति स्तोतुमारेभिरे ।
 
'दिष्टया विषेण भग्नाः स्मो दिष्टया पीतमिदं त्वया ।
दिष्टया च नीलकण्ठं त्वां गृणती साधिता श्रुतिः ॥ ३६॥
 
"
 

 
अनायासेन अश्रमेण, ईषत्प्रयत्नेनेति वाऽर्थः । कबळीकृत: ग्रासीकृतः
कालकूटो येन स तथाभूतं आविष्कृतं प्रकटितं यन्मन्दस्मितं तेन सुन्दरं दर्शनीयं
किञ्च आश्वस्तया समाश्वासं कुर्वन्त्या आश्विष्य आंलिङ्गय चुम्बन्त्या चुम्बनं
कुर्वन्त्या भवान्या उमादेव्या मुहुर्मुहुः असकृत् परामृश्यमानं संस्पृश्यमानं
कन्धरायाः कण्ठस्यं। 'कण्ठो गळोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि
'इत्यमरः पदं स्थानं यस्य स तथाभूतम् । आनन्देन तुन्दिला:
पिचण्डिला: 1. 'तुन्दिलस्तुन्दिमस्तुन्दी बृहत्कुक्षि: पिचण्डिल: ' इत्यमरः ।
तेषां भावस्तत्ता तया किमपि अज्ञातकरणीयैः अविदितकार्यै: इतरेतरमन्योन्यमा-
लिङ्गद्भिः आश्विष्यद्भिः अन्योन्यम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये '
"इति द्विर्भावः । 'असमासवद्भावे पूर्वपदस्थस्य सुप: सुर्वक्तव्यः' इति सुपः
सुरादेशः : आस्फोटयद्भिः अङ्गुळिस्फोटं कुद्भिः । अन्योन्यमपहसद्भिः
अमराश्चगणाश्चेति द्वन्द्वः तै देवैः प्रमयैश्चेत्यर्थः । उपसगृह्यमाणे
'निपीडयमाने चरणारविन्दे यस्य स तथाभूतं भगवन्तं चन्द्रशेखरम् आलक्ष्य
दृष्टा आनन्देन निर्भरी: भरिताः गोविन्दो हरिः, ब्रह्मा, पुरन्दर इन्द्रः एते
आदयो येषां ते "तथाभूताः देवासुराः बलिविरोचनादयः दानवा असुराः
सनकादयः सनकप्रभृतयः ब्रह्मर्षयः महर्षयश्च यथामति स्वस्य मतिमनति-
कम्येत्यर्थः । स्तोतुं स्तुति कर्तुं आरेभिरे उपचक्रमिर इत्यर्थः ॥ दिष्टयेति ॥
 
दिष्टया स्मः, दिष्ट्या (पीतमिदं ) वर्तते - इत्यन्वयं कृत्वा दिष्ट्या आनन्देन
वर्तमिहे वयम्, गरलमपि दिव्यस्थानलाभादानन्देन वर्तते इत्यपूर्व रसिकरञ्जनीयमर्थ-
मोहे पर्याख्याता ॥ श्रुतेरपि सत्यार्थतया आनन्दः ॥