This page has been fully proofread twice.

तत्सौराष्ट्रिकदारदादिभिदया विख्यातमद्याप्यहो
कीटायापि न मन्यते खगपतिं धन्वन्तरिं चाश्विनौ ॥ ३४ ॥
 
अन्तर्निगीर्णमपि तेन तदाविरासीत्
कालोन्मिषत्कुवलयच्छवि कुण्ठमूले ।
आयस्य गुप्तमपि खर्वकृतं [खल्वनृतं] कदापि
सद्यः स्फुटीभवति साधुषु निर्मलेषु ॥ ३५ ॥
 
अथ भगवन्तं अनायासकबळीकृतकालकूटं आविष्कृतमन्दस्मित-
 
[commentary]
 
इत्यमरः । एतस्य परमेश्वरापहृतस्येत्यर्थः । तस्य विषराजस्थ यत् योंऽश इत्यर्थः । शैलेषु पर्वतेषु लेपात्मना लेपनस्वरूपेण अवशेषितं अवशिष्टं कृतमभूदित्यर्थः । यत् योंऽशः उद्भिज्जेषु तरुगुल्मादिषु । 'उद्भिज्जास्तरुगुल्माद्याः' इत्यमरः । यदम्बुराशिषु उदकेसमूहेषु यज्जन्तुषु वृश्चिकादिप्राणिषु क्वापि क्वापि यत्र यत्र चेत्यर्थः । लेपात्मना शेषितमवशेषितमित्यर्थः । सौराष्ट्रिकश्च दारदश्च सौराष्ट्रिकदारदौ तावादी येषां तेषां भिदयां भेदेन । तथा चोक्तम् अमरसिंहेन 'पुंसि क्लीबे च काकोलकालकूटहलाहलः । सौराष्ट्रिकश्शौक्लिकेयो ब्रह्मपुत्र प्रदीपनः ॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥' इति । विख्यातं प्रसिद्धं तत् अवशिष्टविषांशः अद्यापि खगपतिं गरुडं धन्वन्तरिं, अश्विनौ स्वर्वैद्यौ च कीटायापि क्रिमिविशेषवदित्यर्थः । न मन्यते न मनुते । त्वां तृणायापि
न मन्य इत्यत्रेव चतुर्थीं बोध्या, अहो आश्चर्यम् ॥ अन्तरिति ॥ तदा तस्मिन् समये, तेन परमेश्वरेण, अन्तः हृदये निगीर्णं गळितमपि तद्गरळं काले उन्मिषद्विकसद्यत्कुवलयं नीलोत्पलं तस्य छविः कान्तिरिव छविर्यस्य तत्तथाभूतं सत् कण्ठस्य मूले मूलदेशे आविरासीत् प्रकटीबभूवेत्यर्थः । तथाहि
युक्तमेतत् । आयस्य आयासं प्राप्य, गुप्तं रक्षितमपि । 'अवितं गोपायितं च गुप्तम्' इत्यमरः । खर्वाः अल्पाः तैः कृतं कर्म । खल्वनृतमिति एकः पाठः । निर्मलेषु निष्कल्मषेषु साधुषु सद्यः स्फुटीभवति प्रकाशीभवतीत्यर्थः । अत्र प्रस्तुतेन शिवकण्ठे गरळप्रकाशेन सह अप्रस्तुतस्य निर्मलसज्जनेषु
फल्गुजनकृतगुप्तकर्मप्रकाशीभवनस्योक्तेरर्थान्तरन्यासालङ्कारः । 'उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः' इति लक्षणात् ॥ अथेति ॥ अथ अनन्तरं