This page has been fully proofread twice.

निर्मर्यादभवज्वरज्वलनसीदज्जीवजीवातुना
संस्पृष्टं करपल्लवेन जगतां मातुस्सुधास्यन्दिना ।
सद्यश्शीतलितं शरत्परिणतज्योत्स्नामृतस्यन्दवत्
तस्तम्भे [^१]गरळं गळे भगवतश्चन्द्रार्धचूडामणेः ॥ ३३ ॥
 
यच्छैलेषु यदम्बुराशिषु यदुद्भिज्जेषु यज्जन्तुषु
क्वापि क्वापि हृतस्य तस्य सहसा लेपात्मना शेषितम् ।
 
[commentary]
 
उमादेवी जगन्माता पल्लवः किसलयः तद्वत्कोमलेन मृदुना, पाणिना हस्तेन कण्ठपदं कण्ठस्य पदं स्थानं पराममर्श पस्पर्शेत्यर्थः । तथोक्तं देवीभागवते 'वामभांभागस्थिता गौरी लोकानां हितकाम्यया । ग्रीवां जग्राह सहसा शिवस्य परमेशितुः ॥ आन्तरं गळिते कालकूटे दग्धं जगद्भवेत्' इति । श्रीमहाभागवतेऽपि 'ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन्महादेवः कृपया भूतभावनः ॥"' इति ॥ निर्मर्यादेति ॥ निष्क्रान्ता मर्यादाया इति 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । तथा च निर्मर्यादः निस्सीमः यो भवज्वरः संसाररोगः स एव ज्वलनोऽग्निः तेन सीदन्तः खिन्नाः ये जीवाः, जीवन्तीति जीवाः इति व्युत्पत्त्या प्राणिन इत्यर्थः । तेषां जीवातुः जीवनौषधम् । 'जीवातुर्जीवनौषधम्' इत्यमरः । तथाभूतेन सुधाया अमृतस्य स्यन्दि स्रावि तथाभूतेन जगतां लोकानां मातुः जनन्याः उमादेव्याः करपल्लवेन करकिसलयेन संस्पृष्टं परामृष्टं अत एव शरदि शरत्काले, परिणता कालवशात्परिपाकं प्राप्ता, या ज्योत्स्ना चन्द्रिका तस्याः स्यन्दः स्रवणं श्रुतिरिति यावत् । तेन तुल्या स्यन्दवत् । 'तेन तुल्यं क्रिया चेद्वतिः' (५.१.११५) इति वतिप्रत्ययः । सद्यः तत्क्षणं शीतळितं शीतळीकृतं सदित्यर्थः । गरळं विषं चन्द्रार्धचूडामणेः अर्धेन्दुशिरोमणेः परमेश्वरस्य गळे एव तस्तम्भे स्तब्धमभूदित्यर्थः । बहिर्न निस्ससार, उदरं च नाविशदिति भावः॥ यदिति ॥ सहसा अतर्कितं यथा तथेत्यर्थः । 'अतर्किते तु सहसा स्यात्'
 
[^१] दयामय्या दाक्षायण्या अन्तःस्थजगत्प्लोषनिराकरणाय पाणिना परामृष्टे कण्ठ एव तस्तम्भे गरलं, नान्तः, नापि बहिः जगाम ॥ अमृतेश्वरीसुधास्यन्दिहस्तपल्लवस्पर्शबलात् शीतलितञ्च ॥