This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
निर्मर्यादभवज्वरज्वलनसीदज्जीवजीवातुना
 

संस्पृष्टं करपल्लवेन जगतां मातुस्सुधास्यन्दिना ।

सद्यश्शीतलितं
शरत्परिणतज्योत्स्नामृतस्यन्दवत्
 
३०९:
 
सद्यश्शीतलितं
 

तस्तम्भे [^१]गरळं गळे भगवतश्चन्द्रार्धचूडामणेः ॥ ३३
 

 
यच्छैलेषु यदम्बुराशिषु यदुद्धिभिज्जेषु यज्जन्तुषु
 
का

क्वा
पि काक्वापि हृतस्य तस्य सहसा लेपात्मना शेषितम् ।
 

 
[commentary]
 
उमादेवी जगन्माता पल्लव:वः किसलयः तद्वत्कोमलेन मृदुना, पाणिना हस्तेन
कण्ठपदं कण्ठस्य पदं स्थानं पराममर्श पस्पर्शेत्यर्थः । तथोक्तं देवीभागवते
'वामभांगस्थिता गौरी लोकानां हितकाम्यया । ग्रीवां जग्राह सहसा शिवस्य
परमेशितु:तुः ॥ आन्तरं गळिते कालकूटे दग्धं जगद्भवेत्' इति । श्रीमहाभाग-
वतेऽपि 'तत:तः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन्महादेवः कृपया.
भूतभावनः ॥" इति ॥ निर्मर्यादेति ॥ निष्क्रान्ता मर्यादाया इति 'निरादयः क्रान्ता--
द्यर्थे पञ्चम्या' इति समासः । तथा च निर्मर्यादः निस्सीम:मः यो भवज्वरः संसार-
R
 
रोगः स एव ज्वलनोऽग्निः तेन सीदन्तः खिन्ना:नाः ये जीवाः, जीवन्तीति जीवा:
 
21
 
वाः इति व्युत्पत्त्या प्राणिन इत्यर्थः । तेषां जीवातुः जीवनौषधम् । 'जीवातुर्जीवनौषधम्'
इत्यमरः । तथाभूतेन सुधाया अमृतस्य स्यन्दि लास्रावि तथाभूतेन जगतां लोका-
नां मातु:तुः जनन्या:याः उमादेव्याः करपल्लवेन करकिसलयेन संस्पृष्टं परामृष्टं अत
वं शरदि शरत्काले, परिणता कालवशात्परिपाकं प्राप्ता, या ज्योत्स्ना चन्द्रिका
तस्याः स्यन्दः स्रवणं श्रुतिरिति यावत् । तेन तुल्या स्यन्दवत् । 'तेन तुल्यं क्रिया
चेद्वति:तिः' (5-1-115५.१.११५) इति वतिप्रत्ययः । सद्यः तत्क्षणं शीतळितं शीतळीकृतं
सदित्यर्थः । गरळं विषं चन्द्रार्धचूडामणे:णेः अर्धेन्दुशिरोमणे:णेः परमेश्वरस्य गळे
एव तस्तम्भे स्तब्धमभूदित्यर्थ:थः । बहिर्न निस्ससार, उदरं च नाविशदिति भाव:
वः॥ यदिति ॥ सहसा अतर्कितं यथा तथेत्यर्थः । 'अतर्किते तु सहसा स्यात् '
 
A
 
1.''

 
[^१]
दयामय्या दाक्षायण्या अन्तःस्थजगत्प्लोषनिराकेरणाय पाणिना परामृष्टे कण्ठ
एव तस्तम्मेभे गरलं, नान्तः, नापि बहि:हिः जगाम ॥ अमृतेश्वरीसुधास्यन्दिहस्त पल्लवस्पर्श-
बलातःत् शीतलितञ्च ॥