2023-08-22 06:11:22 by Bharadwajraki
This page has been fully proofread twice.
नवनीतमुमाधवो गरळमुपयुयुजे ।
यस्य शिष्यवर्गे बटवाडबानलः, भुजिष्यवर्गे भुजगविषाणि, वनीपकवर्गे वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे तादृशीमपि दारुणतामुपसंगृह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव, खदिरसारखण्ड इव, विशति निश्शङ्कमाननं विषमलोचनस्य, जठरस्थजगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन पाणिना पराममर्श कण्ठपदम् ।
[commentary]
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः । विज्वरा विगतसन्तापाः भवत । इति इत्थम्, पश्यतः द्रष्टॄन् जनान् प्रति प्रबोध्य बोधयित्वा माधवः श्रीपतिः नवनीतं हय्यङ्गवीनमिव । 'हैय्यङ्गवीनं संज्ञायाम्' (५.२.२३) इति निपातनात्साधुः । 'नवनीतं
नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्' इत्यमरः । गरळं विषं उपयुयुजे बुभुज इत्यर्थः । तथाचोक्तं देवीभागवते 'इति सम्प्रार्थितो देवैर्भाव्यमानैर्महर्षिभिः । तत्राविरास भगवान्महादेवः स्वयं प्रभुः ॥ सुराणां साध्वसं दृष्ट्वा संस्मरन्नमृतेश्वरीम् । त्रैलोक्योद्भटभूतं तत्कालकूटं महेश्वरः ॥ हस्तेनाकर्षयद्वेगात् खाद्यसारसमप्रभम् । मुखे जग्राह भगवान् जम्बूफलमिवाशु तत् ॥' इति ॥ यस्येति ॥ यस्य विषराजस्य शिष्याः अन्तेवासिनः । 'छात्रान्तेवासिनौ शिष्यौ' इत्यमरः । तेषां वर्गे समूहे शिष्यकोटाविति यावत् । बडबानलः बाडबाग्निः । भुजिष्याः परिचारकाः । 'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारका' इत्यमरः । तेषां वर्गेषु भुजगानां विषाणि । वनीपकाः याचनकाः । 'वनीपको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । तेषां वर्गे वज्रनिष्पेषः अशन्याघातः
गगनमणिः रविः गणनीयः संख्यातुं योग्य एव तादृशे तथाविधे कालकूटे विषराजे तादृशीं तत्तादृशीमपि दारुणतां भयङ्करत्वम्, उपसङ्गृह्य उपसंहृत्य, जम्बूफल इव जीर्णमातपादि शुष्कं यदामलक्वंकं धात्रीवृक्षफलं तस्मिन्निव । खर्जूरकं खर्जूरफलम् । 'खर्जूरः केतकी ताळी खर्जूरी च तृणद्रुमा' इत्यमरः । तस्य पिण्डके गोलके, पिष्टघनीभूतखर्जूर इति यावत् । खदिरसारः खदिरवृक्षनिर्यासः तस्य खण्ड इव । शर्कराखण्डे इत्यपि केचित् । निश्शङ्कं निर्भयं यथा तथा आननं विषमलोचनस्य त्रिणेत्रस्य स्वामिनो मुखं विशति प्रविशति सति, जठरस्थानि यानि जगन्ति लोकाः तेषां प्लोषः दाहः तमाशङ्कमाना तं प्रति बिभ्यती तेषामपि स्वपुत्रत्वादिति भावः । दयामयी कृपारूपा दाक्षायणी
यस्य शिष्यवर्गे ब
[commentary]
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः । विज्वरा विगतसन्तापाः भवत । इति इत्थम्, पश्यतः द्रष्टॄन् जनान् प्रति प्रबोध्य बोधयित्वा माधवः श्रीपतिः नवनीतं हय्यङ्गवीनमिव । 'हैय्यङ्गवीनं संज्ञायाम्' (५.२.२३) इति निपातनात्साधुः । 'नवनीतं
नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्' इत्यमरः । गरळं विषं उपयुयुजे बुभुज इत्यर्थः । तथाचोक्तं देवीभागवते 'इति सम्प्रार्थितो देवैर्भाव्यमानैर्महर्षिभिः । तत्राविरास भगवान्महादेवः स्वयं प्रभुः ॥ सुराणां साध्वसं दृष्ट्वा संस्मरन्नमृतेश्वरीम् । त्रैलोक्योद्भटभूतं तत्कालकूटं महेश्वरः ॥ हस्तेनाकर्षयद्वेगात् खाद्यसारसमप्रभम् । मुखे जग्राह भगवान् जम्बूफलमिवाशु तत् ॥' इति ॥ यस्येति ॥ यस्य विषराजस्य शिष्याः अन्तेवासिनः । 'छात्रान्तेवासिनौ शिष्यौ' इत्यमरः । तेषां वर्गे समूहे शिष्यकोटाविति यावत् । बडबानलः बाडबाग्निः । भुजिष्याः परिचारकाः । 'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारका' इत्यमरः । तेषां वर्गेषु भुजगानां विषाणि । वनीपकाः याचनकाः । 'वनीपको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । तेषां वर्गे वज्रनिष्पेषः अशन्याघातः
गगनमणिः रविः गणनीयः संख्यातुं योग्य एव तादृशे तथाविधे कालकूटे विषराजे तादृशीं तत्तादृशीमपि दारुणतां भयङ्करत्वम्, उपसङ्गृह्य उपसंहृत्य, जम्बूफल इव जीर्णमातपादि शुष्कं यदामल