This page has been fully proofread once and needs a second look.

नवनीलकण्ठविजये सव्याख्याने
 
नवनी
तमु माधवो गरळमुफ्युयुजे ।
 

 
यस्य शिष्यवर्गे बट्बाटवानलः, भुजिष्यवर्गे भुजगविषाणि, वनीपक-
वर्ग
वर्गे वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे तादृशीमपि
दारुणतामुपसंगृहाह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव,
खदिरसारखण्ड इव, विशति निश्शङ्कमाननं विषमलोचनस्य, जठरस्थ -
जगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन
पाणिना पराममर्श कण्ठपदम् ।
 

 
[commentary]
 
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः ।
विज्वरा विगतसन्तापाः भवत । इति इत्थम्, पश्यतः द्रष्टृटॄन् जनान् प्रति प्रबोध्य
बोधयित्वा माधव:वः श्रीपतिः नवनीत हृतं हय्यङ्गवीनमिव । 'हैय्यङ्गवीनं संज्ञायाम्'
(5-2-23५.२.२३) इति निपातनात्साधुः । 'नवनीतं
नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्'
इत्यमरः । गरळं विषं उपयुयुजे बुभुंभुज इत्यर्थः । तथाचोक्तं देवीभागवते 'इति
सम्प्रार्थितो देवैर्भाव्यमानैर्महर्षिभिः । तत्राविरास भगवान्महादेवः स्वयं प्रभुः ॥
सुराणोंणां साध्वसं दृष्ट्वा संस्मरन्नमृतेश्वरीम् । त्रैलोक्योद्भटभूतं तत्कालकूटं महेश्वरः ॥
हस्तेनाकर्षयद्वेगात् खाद्यसारसमप्रभम् । मुखे जग्राह भगवान् जम्बूफलमिवाशु
ते
त् ॥' इति ॥ यस्येति ॥ यस्य विषराजस्य शिष्याः अन्तेवासिनः । 'छात्रान्ते-
वासिनौ शिष्योयौ' इत्यमरः । तेषां वर्गे समूहे शिष्यकोटाविति यावत् । बडबानल:
बां
लः बावाबाग्निः । भुजिष्या:याः परिचारका:काः । 'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारका'
इत्यमरः । तेषां वर्गेषु भुजगानां विषाणि । वनीपका:काः याचनका:काः । 'वनीपको
याचनको मार्गणो याचकार्थिनौ' इत्यमरः । तेषां वर्गे वज्रनिष्पेषः अशन्याषात:
गगनमणि: रवि:
घातः
गगनमणिः रविः
गणनीय:यः संख्यातुं योग्य एव तादृशे तथाविधे कालकूटे
विषराजे तादृशीं तत्तादृशीमंपि दारुणतां भयङ्करत्वम्, उपसङ्गृह्य उपसंहृत्य,
जं
म्यूबूफल इव जीर्णमांमातपादि शुष्कं यदामलकंक्वं धात्रीवृक्षफलं तस्मिन्निव-7
खर्जूरकं खर्जूरफलम्' । 'खर्जूरः केतकी ताळी खर्जूरी च तृणद्रुमा' इत्यमरः ।
तस्य पिण्डके गोलके, पिष्टघनीभूतखर्जूर इति यावत् । खदिरंसारः खदिर-
वृक्षनिर्यासः तस्य खण्ड इव । शर्कराखण्डे इत्यपि केचित् । निश्शङ्कं निर्भयं
यथा तथा आननं विषमलोचनस्य त्रिणेत्रस्य स्वामिनो मुखं विशति प्रविशति
सति, जठरस्थानि यानि जगन्ति लोकाः तेषां प्लोष:षः दाहः तमाशङ्कमाना तं
प्रति बिभ्यती तेषामपि स्वपुत्रत्वादिति भावः । दयामयी कृपारूपा दाक्षायणी
 
.