This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
नवनीतमु माधवो गरळमुफ्युयुजे ।
 
यस्य शिष्यवर्गे बट्बानलः, भुजिष्यवर्गे भुजगविषाणि, वनीपक-
वर्ग वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे तादृशीमपि
दारुणतामुपसंगृहा, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव,
खदिरसारखण्ड इव, विशति निश्शङ्कमाननं विषमलोचनस्य, जठरस्थ -
जगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन
पाणिना पराममर्श कण्ठपदम् ।
 
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः ।
विज्वरा विगतसन्तापाः भवत । इति इत्थम्, पश्यतः द्रष्टृन् जनान् प्रति प्रबोध्य
बोधयित्वा माधव: श्रीपतिः नवनीत हृय्यङ्गवीनमिव । 'हैय्यङ्गवीनं संज्ञायाम्'
(5-2-23) इति निपातनात्साधुः । 'नवनीतं नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्'
इत्यमरः । गरळं विषं उपयुयुजे बुभुंज इत्यर्थः । तथाचोक्तं देवीभागवते 'इति
सम्प्रार्थितो देवैर्भाव्यमानैमहर्षिभिः । तत्राविरास भगवान्महादेवः स्वयं प्रभुः ॥
सुराणों साध्वसं दृष्ट्वा संस्मरन्नमृतेश्वरीम् । त्रैलोक्योद्भटभूतं तत्कालकूटं महेश्वरः ॥
हस्तेनाकर्षयद्वेगात् खाद्यसारसमप्रभम् । मुखे जग्राह भगवान् जम्बूफलमिवाशु
तेत् ॥ इति ॥ यस्येति ॥ यस्य विषराजस्य शिष्याः अन्तेवासिनः । 'छात्रान्ते-
वासिनौ शिष्यो' इत्यमरः । तेषां वर्ग समूहे शिष्यकोटाविति यावत् । बडबानल:
बांडवाग्निः । भुजिष्या: परिचारका: । 'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारका'
इत्यमरः । तेषां वर्गेषु भुजगानां विषाणि । वनीपका: याचनका: । 'वनीपको
याचनको मार्गणो याचकार्थिनौ' इत्यमरः । तेषां वर्गे वज्रनिष्पेषः अशन्याषात:
गगनमणि: रवि: गणनीय: संख्यातुं योग्य एव तादृशे तथाविधे कालकूटे
विषराजे तादृशीं तत्तादृशीमंपि दारुणतां भयकरत्वम्, उपसगृह्य उपसंहृत्य,
जंम्यूफल इव जीर्णमांतपादि शुष्कं यदामलकं धात्रीवृक्षफलं तस्मिन्निव-7
खर्जूरक खर्जूरफलम्'। 'खर्जूरः केतकी ताळी खजूरी च तृणद्रुमा' इत्यमरः ।
तस्य पिण्डके गोलके, पिष्टघनीभूतखर्जूर इति यावत् । खदिरंसारः खदिर-
वृक्षनिर्यासः तस्य खण्ड इव । शर्कराखण्डे इत्यपि केचित् । निश्शक निर्भयं
यथा तथा आननं विषमलोचनस्य त्रिणेत्रस्य स्वामिनो मुख विशति प्रविशति
•सति, जठरस्थानि यानि जगन्ति लोकाः तेषां प्लोष: दाहः तमाशङ्कमाना तं
प्रति बिभ्यती तेषामपि स्वपुत्रत्वादिति भावः । दयामयी कृपारूपा दाक्षायणी
 
.