2023-08-22 05:51:08 by Bharadwajraki
This page has been fully proofread twice.
मह्यं मह्यमिति प्रतिस्वमसकृत् क्ष्वेळार्पणप्रार्थना-
सन्नह्यद्गणदर्शितस्मितलवं शम्भोः स्थितं पातु नः ॥ ३० ॥
ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु, परिष्टुवति पद्मविष्टरे पद्मनाभे च, निषेद्धुमनुवर्तितुमप्यपारीणतया निश्चलार्पितदृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गळमाशासानया[^१] सर्वमङ्गळया समालिङ्गितो दृढं 'हालाहलो नाम विषराजोऽयमाचम्यतेऽस्माभिर्मा बिभीत, विज्वरा भवत' इति प्रतिबोध्य पश्यतो जनान्, माधव इव[^२]
[commentary]
विष्टपाणि भुवनानि यस्मिन् तत्, अतिप्रेम्णा अत्यन्तस्नेहेन । 'प्रेमा ना प्रियताहार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । ऊहितं यदत्याहितं महाभीतिः तेन प्रक्षुभ्यन्ती व्यथया सहिता या गिरिजा पार्वती तथा गृहीतं पुनरुद्धूतं पुनस्त्यक्तं अग्र्यं श्रेष्ठं हस्ताम्बुजं यस्मिन् तत्तथाभूतम् । 'त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम्' इत्यमरः । प्रतिस्वं प्रत्येकम् । वीप्सायामव्ययीभावः । प्रतिव्यक्तीति यावत् । मह्यं मह्यमिति असकृद्वारं वारं क्ष्वेळस्य अर्पणं समर्पणं तस्य प्रार्थना याचना तस्यां सन्नह्यन्तस्सन्नाहं कुर्वन्तः ये गणाः प्रमथाः । 'कणोऽतिसूक्ष्मे धान्यांशे गणे' इत्यमरः । तेषु विषये दर्शितः स्मितस्य लवो लेशो यस्मिन् तत्तथाभूतं शम्भोशिशवस्य स्थितं स्थितिः । भावे क्तः । नः अस्मान् पातु रक्षत्वित्यर्थः ॥
तत इति ॥ ततोऽनन्तरं जगति लोके, प्रकृतिः स्वभावः, तया तिष्ठतीति प्रकृतिस्थं तथाभूते सति देवासुरेषु प्रबुद्धेषु जागरूकेषु सत्सु पद्मविष्टरे अरविन्दासने ब्रह्मणि पद्मनाभे, च नारायणे च परिष्टुवति स्तुतिं कुर्वाणे सति, निश्चलं यथा तथा अर्पिताः विन्यस्ता दृष्टयो यैस्तथाभूतेषु नन्दिमुखेषु नन्दीश्वरमुखेषु पारिषदेषु प्रमथेषु । 'प्रमथाः स्युः पारिषदाः' इत्यमरः । निषेद्धुं निरोद्धुम् अनुवर्तितुमनुसर्तुं वा अपारीणेषु असमर्थेषु आन्तरे हृदय एव मङ्गळं कल्याणं आशंसमानया कामयमानया सर्वमङ्गळया उमादेव्या दृढं गाढम् । 'गाढबाढदृढानि च' इत्यमरः । आलिङ्गितो देवो महादेवः उमाधवः पार्वतीपतिः हालाहलो नाम हालाहल इति प्रसिद्धः विषराजः विषसार्वभौमः अस्माभिः आचम्यते
[^१] 'आशंसमानया' इति व्याख्यापाठः ।
[^२] माधवस्य नवनीतभक्षणं यथा सुकरमतिप्रियं च, तथाऽऽपन्नार्तिहरस्येश्वरस्य हालाहलभक्षणं सुकरमतिप्रियं चेति उपमया द्योत्यते ॥
सन्नह्यद्गणदर्शितस्मितलवं शम्भोः स्थितं पातु नः ॥ ३० ॥
ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु, परिष्टुवति पद्मविष्टरे पद्मनाभे च, निषेद्धुमनुवर्तितुमप्यपारीणतया निश्चलार्पितदृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गळमाशासानया[^१] सर्वमङ्गळया समालिङ्गितो दृढं 'हालाहलो नाम विषराजोऽयमाचम्यतेऽस्माभिर्मा बिभीत, विज्वरा भवत' इति प्रतिबोध्य पश्यतो जनान्, माधव इव[^२]
[commentary]
विष्टपाणि भुवनानि यस्मिन् तत्, अतिप्रेम्णा अत्यन्तस्नेहेन । 'प्रेमा ना प्रियताहार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । ऊहितं यदत्याहितं महाभीतिः तेन प्रक्षुभ्यन्ती व्यथया सहिता या गिरिजा पार्वती तथा गृहीतं पुनरुद्धूतं पुनस्त्यक्तं अग्र्यं श्रेष्ठं हस्ताम्बुजं यस्मिन् तत्तथाभूतम् । 'त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम्' इत्यमरः । प्रतिस्वं प्रत्येकम् । वीप्सायामव्ययीभावः । प्रतिव्यक्तीति यावत् । मह्यं मह्यमिति असकृद्वारं वारं क्ष्वेळस्य अर्पणं समर्पणं तस्य प्रार्थना याचना तस्यां सन्नह्यन्तस्सन्नाहं कुर्वन्तः ये गणाः प्रमथाः । 'कणोऽतिसूक्ष्मे धान्यांशे गणे' इत्यमरः । तेषु विषये दर्शितः स्मितस्य लवो लेशो यस्मिन् तत्तथाभूतं शम्भोशिशवस्य स्थितं स्थितिः । भावे क्तः । नः अस्मान् पातु रक्षत्वित्यर्थः ॥
तत इति ॥ ततोऽनन्तरं जगति लोके, प्रकृतिः स्वभावः, तया तिष्ठतीति प्रकृतिस्थं तथाभूते सति देवासुरेषु प्रबुद्धेषु जागरूकेषु सत्सु पद्मविष्टरे अरविन्दासने ब्रह्मणि पद्मनाभे