This page has been fully proofread once and needs a second look.

तुरीयाभ्वासः
 
मह्यं मह्यमिति प्रतिस्वमसकृत् क्ष्वेळार्पणप्रार्थना-

सन्नह्यद्गणदर्शितस्मितलवं शम्भोः स्थितं पातु नः ॥३०॥
 

 
ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु, परिष्टुवति पद्म-
10
 
G
 
विष्टरे पद्मनाभे च निषेद्धुमनुवर्तितुमप्यपारीणतया निश्चलार्पित-
दृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गळमाशासानया[^१] सर्वमङ्गळया
समालिङ्गितो दृढं 'हालाहलो नाम विषराजोऽयमाचम्यतेऽस्माभिर्मा
बिभीत, विज्वरा भवत' इति प्रतिबोध्य पश्यतो जनान्, माधव इव 2
 
૩૯
 
[^२]
 
[commentary]
 
विष्टपाणि भुवनानि यस्मिन् तत्, अतिप्रेम्णा अत्यन्तस्नेहेन । 'प्रेमा ना प्रियता-
हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । ऊहितं यदत्याहितं महाभीतिः तेन
प्रक्षुभ्यन्ती व्यथया सहिता या गिरिजा पार्वती तथा गृहीतं पुनरुद्धूतं पुनस्त्यक्तं
थ्ग्र्यं श्रेष्ठं हस्ताम्बुजं यस्मिन् तत्तथाभूतम् । 'त्यक्तं हीनं विधुतं समुज्झितं
धूतमुत्सृष्टम्' इत्यमरः । प्रतिस्वं प्रत्येकम् । वीप्सायामव्ययीभावः । प्रतिव्यक्तीति
यावत् । मह्यं मह्यमिति असकृद्वारं वारं क्ष्वेस्य अर्पणं समर्पणं तस्य प्रार्थना याचना
तस्यां सन्नानह्यन्तस्सन्नाहं कुर्वन्तः ये गणाः प्रमथा:थाः । 'कणोऽतिसूक्ष्मे धान्यांशे
गणे इत्यमरः । तेषु विषये दर्शितः स्मितस्य लवो लेशो यस्मिन् तत्तथाभूतं
शम्भोशिशवस्य स्थितं स्थितिः । भावे क्तः । नः अस्मान् पातु रक्षत्वित्यर्थः ॥
तृ

त इति ॥ ततोऽनन्तरं जगति लोके, प्रकृतिः स्वभावः, तया तिष्ठतीति प्रकृतिस्थं
तथाभूते सति देवासुरेषु प्रबुद्धेषु जागरूकेषु सत्सु पद्मविष्टरे अरविन्दासने
ब्रह्मणि पद्मनाभे, नारायणे च परिष्टुवति स्तुतिं कुर्वाणे सति, निश्चलं यथा
तथा अर्पिता:ताः विन्यस्ता दृष्टयो यैस्तथाभूतेषु नन्दिमुखेषु नन्दीश्वरमुखेषु पारिष-
द्वे
देषु प्रमथेषु । 'प्रमथाः स्युः पारिषदाः' इत्यमरः । निषेद्धुं निरोद्धुम् अनुवर्ति-
तुमनुसर्तुं वा अपारीणेषु असमर्थेषु आन्तरे हृदय एव मङ्गळं कल्याणं आशं-
समानया कामयमानया सर्वमङ्गळया उमादेव्या दृढं गाढम् । 'गाढबाढदृढानि
च' इत्यमरः आलिङ्गितो देवो महादेवः उमाधव:वः पार्वतीपतिः हालाहलो
 
J
 
जा
नाम हालाहल इति प्रसिद्धः विषराज:जः विषसार्वभौमः अस्माभिः आचम्यते
Big

 
[^१] '
शसमानयो"शंसमानया' इति व्याख्यापाठः ।
 

 
[^२]
माधवस्ये नवनीतभक्षणं यथा सुकरतिप्रियं च, तथाऽऽपन्नार्तिहरस्येश्वरस्य
हालाक्षणं सुकरमतिप्रियं चेति उपमया द्योल्त्यते ॥