2023-08-22 05:22:12 by Bharadwajraki
This page has been fully proofread twice.
शपशुपाशग्रन्थिविश्लथनायाससम्भृतारुण्य इव, पार्वती कुचकुम्भकुंकुमालेपपरिचयपाटल इव, तामरसोदरaसोदरत्विषि पाणितले, पल्लव इव मधुव्रतः, पद्मरागकरण्ड इव कस्तूरिका, जाम्बवमात्रपरिमाणजातसङ्कोचमपि दुराधर्षमूष्मणा, दुर्दर्शमतिदारुणेन तेजसा च, समालक्ष्यत तरळमिव [^१]साध्वसेन तद्गरळम् ।
आश्चर्यस्तिमितत्रिविष्टपमतिप्रेमाहितात्याहित -
प्रक्षुभ्यद्गिरिजागृहीतपुनरुद्भूधूताग्रहस्ताम्बुजम् ।
[commentary]
येन स तथाभूत इव स्थिते परिणामः परिपाकः तेन कर्कशाः कठिनाः ये पशूनां पशुकल्पप्राणिनां पाशानां संसारपाशानां अविद्यापरपर्यायाणां ग्रन्थयः किणानि पर्वपर्यायाणि । 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । भ्रमा एव ग्रन्थय इति तात्पर्यार्थः । तेषां विश्लथनं विमोचनं तस्मिन् य आयासः तेन संभृतं सम्पादितं आरुण्यं येन तत्तथाभूत इव स्थिते पार्वत्याः यौ कुचकुम्भौ तयोर्यत्कुङ्कुमं तस्य परिचयः संबन्धः तेन पाटलेऽरुणिते तामरसेन सोदरी सहदृशी त्विट् यस्य स तथाभूत इव स्थिते । अस्य परशिवस्य, पाणितले हस्तप्रदेशे, पल्लवे किसलये मधुव्रतः भ्रमर इव पद्मरागरशोणरत्नम् । 'शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । 'तन्मयं यत्करण्डं भाजनं तस्मिन्कस्तूरिकेव मृगमद इव । जाम्बवं जम्बूफलं मात्रं प्रमाणं यस्यं तज्जाम्बवमात्रम् । 'प्रमाणे द्वयसज् --' (५.२.३७) इत्यादिना मात्रच् प्रत्ययः । 'बार्हतं च फुले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः । अत एव
परिमाणेन इयत्तया जातः प्राप्तः सङ्कोचः पूर्वापेक्षया ह्रासो यस्य तत्तथाभूत ऊष्मणा उष्णांशेन दुराधर्षं निग्रहीतुमशक्यमित्यर्थः । अतिदारुणेन अत्यन्तभयङ्करेण, तेजसा प्रभावेन । 'तेजः प्रभावे दीप्तौ च' इत्यमरः । दुर्दर्शं कृच्छ्रेण द्रष्टुं शक्यमित्यर्थः । 'ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्येषु खल्' (३.३.१२६) इति खल्प्रत्ययः । साध्वसेन भयेनेव तरळ चञ्चलं तद्गरळं विषं आलक्ष्यत दृष्टमित्यर्थः । सर्वैरित्यस्य गम्यमानत्वादप्रयोगः ॥ आश्चर्येति ॥ आश्चर्यं विस्मयरसः तेन स्तिमितानि आर्द्राणि । 'आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च' इत्यमरः । त्रीणि
a. व्याख्याने 'उदरशब्दः' परित्यक्तः ।
[^१] गरलमपि तादृशं पाणितले तरलं साध्वसेन कम्पमानमिवालक्ष्यत इत्युक्त्या ईश्वरनियन्त्रितस्य कृष्णगुलिकाप्रायस्य हालाहलस्य दशा सूचिता ॥
आश्चर्यस्तिमितत्रिविष्टपमतिप्रेमाहितात्याहित
प्रक्षुभ्यद्गिरिजागृहीतपुनरुद्
[commentary]
येन स तथाभूत इव स्थिते परिणामः परिपाकः तेन कर्कशाः कठिनाः ये पशूनां पशुकल्पप्राणिनां पाशानां संसारपाशानां अविद्यापरपर्यायाणां ग्रन्थयः किणानि पर्वपर्यायाणि । 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । भ्रमा एव ग्रन्थय इति तात्पर्यार्थः । तेषां विश्लथनं विमोचनं तस्मिन् य आयासः तेन संभृतं सम्पादितं आरुण्यं येन तत्तथाभूत इव स्थिते पार्वत्याः यौ कुचकुम्भौ तयोर्यत्कुङ्कुमं तस्य परिचयः संबन्धः तेन पाटलेऽरुणिते तामरसेन सोदरी स