This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
शपशुपाशग्रन्थिविश्लथनायाससम्भृतारुण्य इव, पार्वती कुचकुम्भकुंकुमालेप-
परिचयपाटल इव, तामरसोदर सोदरत्विषि पाणितले, पल्लव इव मधुव्रतः,
पद्मरागकरण्ड इव कस्तूरिका, जाम्बवमात्र परिमाणजातसङ्कोचमपि
दुराधर्षमूष्मणा, दुर्दर्शमतिदारुणेन तेजसा च, समालक्ष्यत तरळमिव
' साध्वसेन तद्गरळम् ।
 
आश्चर्यस्तिमि॒ितत्रिविष्टपमतिप्रेमाहितात्याहित -
'प्रक्षुभ्यगिरिजागृहीत पुनरुद्भूताग्रहस्ताम्बुजम् ।
 
3
 
येन स तथाभूत इव स्थिते परिणामः परिपाक: तेन कर्कशा: कठिनाः ये पशूनां
पशुकल्पप्राणिनां, पाशानां संसारपाशानां अविद्यापपर्यायाणां ग्रन्थय किणानि
पर्वपर्यायाणि । 'प्रन्थिन पर्वपरुषी' इत्यमरः । भ्रमा एव ग्रन्थय इति तात्पर्यार्थः ।
तेषां विश्वथनं विमोचनं तस्मिन् य आयासः तेन संभृतं सम्पादित आरुण्य येन
तित्तथाभूत इव स्थिते पार्वत्याः यो कुचकुम्भौं तयोर्यत्कुकमं तस्य परिचय :
'संबन्ध: तेन पाटलेऽरुणिते तामरसेन सोदरी सहशी विट् यस्य स तथाभूत
"इव स्थिते । अस्य परशिवस्य, पाणितले हस्तप्रदेशे, पल्लवे किसलये मधुव्रतः भ्रमर
'इव पद्मरोगरशोणरत्नम् । 'शोणरत्ने लोहितकं पद्मरागोऽथ मौक्तिकम् इत्यमरः ।
'तन्मयं यत्करण्ड भाजन तस्मिन् कस्तूरिकेव मृगमद इव । जाम्बवं जम्बूफलं मात्र
प्रमाण यस्यं तज्जाम्बवमात्रम्। 'प्रमाणे
द्रयसंज्-' (5-2-37 ) इत्यादिना मात्र प्रत्ययः ।
"बाईंत च फुले जम्ब्बा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः । अत एव
परिमाणेन इयत्तया जातः प्राप्तः सङ्कोच: पूर्वापेक्षया हासो यस्य तत्तथाभूत ऊष्मणा
उष्णांशेन दुराधर्ष निग्रहीतुमशक्यमित्यर्थः । अतिदारुणेन अत्यंन्तभयङ्करेण,
'तेजसा प्रभावेन । 'तेज: प्रभावे दीप्तौ च ' इत्यमरः । दुर्दर्श कृच्छ्रेण द्रष्टुं
`शक्यमित्यर्थः। 'ईषद्दःसुषु कृच्छ्राकृच्छ्रार्येषु खल) (3-3-126) इति खलूप्रत्ययः ।
साध्वसेन भयेनेव तरळ चञ्चलं तद्गरळं विषं आलक्ष्यत दृष्टमित्यर्थः । सर्वैरि-
त्यस्य गम्यमानत्वाद्दुप्रयोगः ॥ आचर्येति ॥ आश्चर्य विस्मयरसः तेन स्तिमितानि
"आर्द्राणि । 'आर्द्र सार्द्र किन्न तिमित स्तिमितं समुन्नमुत्तं च ' इत्यमरः । त्रीणि
 
.
 
T
 
-
 
it
 
a.
 
व्याख्याने 'उदरशब्द: ' परित्यक्तः ।
 
1. गरलमपि तादृश पाणितले तरलं साध्वसेन कम्पमान मिवालक्ष्यत इत्युतथा
ईश्वरनियन्त्रितस्य कृष्णगुलिकाप्रायस्य हालाहलस्य दशा सूचिता ॥