This page has been fully proofread twice.

जन्तवः, यथापुरं अबुध्यत वासुकिः, उत्तस्थुर्देवासुराः, शनैरुपलभ्य संज्ञामम्भोजसम्भवोऽपि सन्ददर्श चन्द्रशेखरम् ।
 
पर्याप्तेन्दुशतद्युतिं परिचितं सत्या शुकश्यामया
साकूतस्मितसुन्दराधरपुटं शार्दूलचर्माम्बरम् ।
सावज्ञाग्रकरप्रसारणमहासंरम्भसम्भावना-
संहृष्यत्कमलेक्षणं च तमसौ पश्यन्न तृप्तिं ययौ ॥ ३१ ॥
 
ततः प्रतिलब्धचेतना ब्रह्मादयः, पक्षिण इव सुप्तोत्थिताः प्रातरुच्चावचैः कोलाहलैरुद्यन्तमिव [^१]सहस्रकिरणमुपतिष्ठन्ते यावदुमारमणम्, तावदस्य भवसागरनिमग्नभक्तजनोद्धारदर्शितानुराग इव, परिणामकर्क-
 
[commentary]
 
यानि शतानि तेषां द्युतिः कान्तिः यस्य स तथाभूतम् । शुकवत् श्यामा श्यामला तथाभूतया सत्या पतिव्रतया परिचितम् आश्लिष्टं शुकश्यामलाम्बयेति यावत् । सतीदेव्येति वाऽर्थः । शुकश्यामलाम्बास्वरूपं वर्णितम् अस्मत्तातपादैः 'वपुषा वचसा शुकायमानामधरे वाससि किंशुकायमानाम् । शिवकायशुभांशुकायमानां गजचित्तात्मविदां शुकायमानाम्' इति । आकूतं कर्तव्यार्थविनिश्चयः तेन सहितं साकूतं यत् स्मितं तेन सुन्दरं दर्शनीयं अधरपुटमधरप्रदेशः यस्य स
तथाभूतं शार्दूलचर्म व्याघ्राजिनं तस्य धरं धर्तारं परशिवमित्यर्थः । सावज्ञं सावहेळनं यथा तथा यदग्रकरस्य प्रसारणं तस्मिन् यो महासंरम्भः महानुद्योगः स एव सम्भावना बहुमाननं महासंरम्भस्य उद्योगस्य सम्भावना श्लाघनेति वाऽर्थः । तया संहृष्यन् हर्षं प्राप्नुवन् यः कमलेक्षणः श्रीहरिः यस्य स तथाभूतं तमपि पश्यन् तृप्तिं अलंबुद्धिं न ययौ न प्राप ॥ तत इति ॥ ततो भगवद्दर्शनानन्तरं प्रतिलब्धा प्राप्ता चेतना प्रज्ञा यैस्ते तथाभूता ब्रह्मादयः सुतोत्थिताः प्रसुप्ताः पश्चादुत्थिता इति स्नातानुलिप्तवत्समासः । पक्षिण उच्चावचैरनेकविधैः कोलाहलैः कलकलध्वनिभिः प्रातरुद्यन्तं उद्भवन्तं सहस्रकिरणमादित्यमिव उमारमणं पार्वतीपतिं यावदुपतिष्ठन्ते सेवन्ते ॥ तावदिति ॥ तावत् भवः जननमरणप्रवाहलक्षणसंसारः स एव सागरः तस्मिन्निमग्नाः ये भक्ताजनाः तेषामुद्धारः उद्धरणं तस्मिन् दर्शितः अनुरागः
 
[^१] उद्यन्तमिव सहस्रकिरणमिति प्रसिद्धोपमया सूर्योपस्थानरसिकः कर्मठः कविरिति निश्चयः ।