2023-06-05 16:40:37 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
३०५
-जन्तवः, यथापुरं अबुध्यत वासुकिः, उत्तस्थुदेवासुराः, शनैरुपलभ्य
• संज्ञा मम्भोजसम्भवोऽपि सन्ददर्श चन्द्रशेखरम् ।
पर्याप्तेन्दुशतयुतिं परिचितं सत्या शुकश्यामया
साकूतस्मितसुन्दराधरपुटं शार्दूलचर्माम्बरम् ।
सावज्ञाग्र करप्रसारणमहासंरम्भसम्भावना-
संहृष्यत्कमलेक्षणं च तमसौ पश्यन्न तृप्तिं ययौ ॥ ३१ ॥
ततः प्रतिलब्धचेतना ब्रह्मादयः, पक्षिण इव सुप्तोत्थिताः
प्रातरुच्चावचैः कोलाहलैरुघन्तमिव 'सहस्रकिरणमुपतिष्ठन्ते यावदुमा रमणम्,
'तावदस्य भवसागरनिमग्नभक्तजनोद्धारदर्शितानुराग इव, परिणामकर्क-
यानि शतानि तेषां द्युतिः कान्तिः यस्य स तथाभूतम् । शुकवत् श्यामा
: श्यामला तथाभूतया सत्या पतिव्रतया परिचितम् आश्लिष्टं शुकश्यामलाम्बयेति
यावत् । सतीदेव्येति वाऽर्थः । शुकश्यामलाम्बास्वरूपं वर्णितम् अस्मत्तातपादैः
.'
वपुषा वचसा- शुकायमानामघरे वाससि किंशुकायमानाम् । शिवकायशुभां-
शुकायमानां गजचित्तात्मविदां शुकायमानाम्' इति । आकूतं कर्तव्यार्थविनिश्चयः
हतेन सहित साकूतं यत् स्मितं तेन सुन्दरं दर्शनीयं अधरपुटमधरप्रदेशः यस्य स
तथाभूतं शार्दूलचर्म व्याघ्राजिनं तस्य घरं धर्तारं परशिवमित्यर्थः । सावज्ञं सावहेळनं
• यथा तथा यदग्रकरस्य प्रसारणं तस्मिन् यो महासंरम्भः महानुद्योगः स एव
सम्भावना बहुमाननं महासंरम्भस्य उद्योगस्य सम्भावना श्लाघनेति वाऽर्थः । तया
. संहृष्यन् हर्ष प्राप्नुवन् यः कमलेक्षण: श्रीहरिः यस्य स तथाभूतं तमपि पश्यन्
तृप्ति अलंबुद्धि न ययौ न प्राप ॥ तत इति ॥ ततो भगवदर्शनानन्तरं प्रतिलब्धा
प्राप्ता चेतना प्रज्ञा यैस्ते तथाभूता ब्रह्मादयः सुतोत्थिताः प्रसुप्ताः पश्चादुत्थिता
_इति स्नातानुलिप्तवत्समासः । पक्षिण उच्चावचैरनेकविधैः कोलाहलै : कलकलध्व-
निभिः प्रातरुद्यन्तं उद्भवन्तं सहस्रकिरणमादित्यमिव उमारमणं पार्वतीपतिं यावदुप-
तिष्ठन्ते सेवन्ते ॥ तावदिति ॥ तावत् भवः जननमरणप्रवाहलक्षणसंसारः स एव
सागरः तस्मिन्निमनाः ये भक्ताजनाः तेषामुद्धार : उद्धरणं तस्मिन् दर्शित: अनुराग:
1. उद्यन्तमिव सहस्र किरणमिति प्रसिद्धोषमया सूर्योपस्थानरसिक: कर्मठ: कविरिति
निश्चयः ।
N – 39