2023-07-04 11:28:16 by Bharadwajraki
This page has been fully proofread twice.
नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती-
त्येतावत्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा ।
आवात्स्यायनतन्त्रमाश्रुतिशिरस्सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥ ८ ॥
[commentary]
प्रासः आयुधविशेषः तेन उपहतापि सन्ताडितापि, कुपिता सती कोपवती सती । मयीति शेष: । जातु कदाचित् । प्रसादमनुग्रहं मा स्म त्यजः मा विमुञ्चेत्यर्थः । "त्यज[^१] विसर्ग" इति धातो"स्स्मोत्तरे लङ्चे" ति पा. सू. ३.३.१७६. कर्तरि लङ् । भवत्पादावलम्बिनं मां ग्रन्थनिर्माणचतुरं कुर्वित्याशयः । ननु गुरुवन्दनवत्साम्प्रदायिककविवन्दनस्यापि ग्रन्थादावावश्यकत्वात्तत्कुतो न
कृतमिति चेद्भुवनेषु कवयः बहवः, देवेषु गुरुशुक्रादयः, ऋषिषु वाल्मीक्यादयः, मनुष्येषु काळिदासादयः, तेषां प्रत्येकमेकैकं प्रति एकेन पुंसा नमनं कर्तुमशक्यं, तथापि उत्तमाधमयोस्समपूजायां [^२]प्रत्यवाय श्रवणात्सङ्घनमनस्याकर्तव्यत्वेन निखिलकवीनां विद्यासु कौशलं यदनुग्रहाद्भवति तामेकां वाग्देवीमेव नौमीत्याशयेनाह ॥ नन्तव्या इति ॥ इहास्मिन्भुवने, नन्तव्याः नमनार्हाः, कवयः कालिदासादयः कति कियन्तः। बहुमन्तव्याः बहुमन्तुं योग्याः । बहुपूर्वान्मनुते"स्तव्यत्तव्यानीयर" पा. सू. ३.१.९६ इति तव्यप्रत्ययः । रसज्ञास्सारज्ञाः पेद्दिभट्टादयः । "आतोऽनुपसर्गे क" पा. सू. ३.२.३ इत्यवबोधनार्थात् ज्ञाधातोः कप्रत्ययः । कति कियन्तः कीर्तिशरीराः बहवः कवयः ये वर्तन्ते तेषां नमनादिकं न करोमीति भावः । अलसः जडः । अहं एतावदेतावन्मात्रं करोमि । कवयः कवयितारः हृष्यन्तु सन्तुष्यन्तु अथवा रुष्यन्तु कुप्यन्तु, तेभ्यो न बिभेमीति भावः । तर्हि तव कर्तव्यं किमिति चेदत आह ॥ आवात्स्यायनतन्त्रम् ॥ वात्स्यायनेन ऋषिणा प्रणीतं शास्त्रं वात्स्यायनतन्त्रं, तत आरभ्य आवात्स्यायनतन्त्रम् । श्रुतीनां शिरांसि उपनिषदः, तेषां सिद्धान्ताः निष्कृष्टार्थाः । तानभिव्याप्य आश्रुतिशिरस्सिद्धान्तम् । उभयत्र "आङ्मर्यादाभिविध्योरि"ति पा.सू. २.१.१३ समासः। उच्चावचाः अनेकविधाः विद्याः वेदवेदाङ्गादयः । यत्प्रभवाः या सरस्वती प्रभवः कारणं
[^१] "त्यज - हानौ" -- भ्वादौ षोडशसु परस्मैपदिषु नवमोऽयम् ।
[^२] "समासमाभ्यां विषमसमे पूजातः" इति गौतमधर्मसूत्रेणेति शेषः ॥