2023-06-30 01:03:29 by Bharadwajraki
This page has not been fully proofread.
-1
त्येताक्त्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा ।
आवात्स्यायनतन्त्रमाश्रुतिशिरस्सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥ ८ ॥
--------------
प्रास: आयुध विशेष: तेन उपहतापि सन्ताडितापि, कुपिता सती कोपवती
कृतमिति चेद्भुवनेषु कवयः बहवः, देवेषु गुरुशुक्रादयः, ऋषिषु वाल्मीक्यादयः,
कवीनां विद्यासु कौशलं यदनुग्रहाद्भवति तामेकां वाग्देवीमेव नौमीत्याशयेनाह ॥
नन्तव्या इति ॥ इहास्मिन्भुवने, नन्तव्याः नमन र्हाः, कवयः कालिदासादयः
कति कियन्तः। बहुमन्तत्र्याः बहुमन्तुं योग्याः । बहुपूर्वान्मनुते "स्तव्यत्तत्र्यानीयर'"
पा. सू. 3-1-96 इति तव्यप्रत्ययः । रसज्ञास्सारज्ञा: पेद्दिभट्टादयः । "आतोऽ
नुपसर्गेक" पा. सू. 3-2-3 इत्यवोधनार्थात् ज्ञाधातोः कप्रत्ययः । कति कियन्तः
कीर्तिशरीराः बहवः कवयः ये वर्तन्ते तेषां नमनादिकं न करोमीति भावः ।
अलसः जडः । अहं एतावदेतावन्मात्रं करोमि । कवयः कवयितारः हृष्यन्तु
सन्तुष्यन्तु अथवा रुष्यन्तु कुप्यन्तु, तेभ्यो न त्रिभेमीति भावः । तर्हि तव कर्तव्यं
किमिति चेदत आह ॥ आवात्स्यायनेति ॥ वात्स्यायनेन ऋषिणा प्रणीत
शास्त्रं वात्स्यायनतन्त्रं, तत आरभ्य आवात्स्यायनन्त्रम् । श्रुर्तीनां शिरांसि
उपनिषदः, तेषां सिद्धान्ताः निष्कृष्टार्था: । तानभिव्याप्य आश्रुतिशिरस्सिद्धा-
न्तम् । उभयत्र "आडूमर्यादाभिविध्योरि"ति पा.सू. 2-1 13 समासः। उच्चावचाः
अनेकविधाः विद्या: वेदवेदाङ्गादयः । यत्प्रभवाः या सरस्वती प्रभवः कारणं
1.
2.
त्यज - हानौ " — भ्वादौ षोडशसु परस्मैपदिषु नवमोऽयम् ।
'समासमाभ्यां विषमसमे पूजातः" इति गौतमधर्मसूत्रेणेतिशेषः ॥