2023-06-05 16:38:57 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
-1
नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती-
त्येताक्त्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा ।
आवात्स्यायनतन्त्रमाश्रुतिशिरस्सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥ ८ ॥
प्रास: आयुध विशेष: तेन उपहतापि सन्ताडितापि, कुपिता सती कोपवती
सती । मयीति शेष: । जातु कदाचित् । प्रसादमनुग्रहं मा स्म त्यजः
मा विमुञ्चेत्यर्थः । "त्यज' विसर्ग" इति धातोरस"स्मोत्तरे लड्चे" ति पा. सू.
3 3 176 कर्तरि लङ् । भवत्पादावलम्बिनं मां ग्रन्थनिर्माणचतुरं कुर्वित्यशयः ।
ननु गुरुवन्दनवत्साम्प्रदायिककविवन्दनस्यापि ग्रन्थादावावश्यकत्वात्तत्कुतो न
कृतमिति चेद्भुवनेषु कवयः बहवः, देवेषु गुरुशुक्रादयः, ऋषिषु वाल्मीक्यादयः,
मनुष्येषु काळिदासादयः, तेषां प्रत्येकमेकैकं प्रति एकेन पुंसा नमनं कर्तुमशवयं,
तथापि उत्तमाधमयोस्समपूजायां प्रत्यवाय श्रवणात्सङ्घनमनस्याकर्तव्यत्वेन निखिल-
कवीनां विद्यासु कौशलं यदनुग्रहाद्भवति तामेकां वाग्देवीमेव नौमीत्याशयेनाह ॥
नन्तव्या इति ॥ इहास्मिन्भुवने, नन्तव्याः नमन र्हाः, कवयः कालिदासादयः
कति कियन्तः। बहुमन्तत्र्याः बहुमन्तुं योग्याः । बहुपूर्वान्मनुते "स्तव्यत्तत्र्यानीयर'"
पा. सू. 3-1-96 इति तव्यप्रत्ययः । रसज्ञास्सारज्ञा: पेद्दिभट्टादयः । "आतोऽ
नुपसर्गेक" पा. सू. 3-2-3 इत्यवोधनार्थात् ज्ञाधातोः कप्रत्ययः । कति कियन्तः
कीर्तिशरीराः बहवः कवयः ये वर्तन्ते तेषां नमनादिकं न करोमीति भावः ।
अलसः जडः । अहं एतावदेतावन्मात्रं करोमि । कवयः कवयितारः हृष्यन्तु
सन्तुष्यन्तु अथवा रुष्यन्तु कुप्यन्तु, तेभ्यो न त्रिभेमीति भावः । तर्हि तव कर्तव्यं
किमिति चेदत आह ॥ आवात्स्यायनेति ॥ वात्स्यायनेन ऋषिणा प्रणीत
शास्त्रं वात्स्यायनतन्त्रं, तत आरभ्य आवात्स्यायनन्त्रम् । श्रुर्तीनां शिरांसि
उपनिषदः, तेषां सिद्धान्ताः निष्कृष्टार्था: । तानभिव्याप्य आश्रुतिशिरस्सिद्धा-
न्तम् । उभयत्र "आडूमर्यादाभिविध्योरि"ति पा.सू. 2-1 13 समासः। उच्चावचाः
अनेकविधाः विद्या: वेदवेदाङ्गादयः । यत्प्रभवाः या सरस्वती प्रभवः कारणं
1.
2.
त्यज - हानौ " — भ्वादौ षोडशसु परस्मैपदिषु नवमोऽयम् ।
'समासमाभ्यां विषमसमे पूजातः" इति गौतमधर्मसूत्रेणेतिशेषः ॥